पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । शब्देन स्वमवृत्तेः पूर्व वस्तुतः प्राप्त्यभाववत्वमाभिप्रेतं तथा चाति- देशतः सामान्यविधितः परशाखीयविधितो वा सम्भवत्याप्तिकविष- येष्वग्रताविधिस्वर्गकामविधिस्वशाखीयविधिषु नाव्याप्तिः आनुमानि- कस्वसामान्यप्रकृतत्वपराधीनत्वैहेतुभिर्विलम्बितप्रवृत्तिकेभ्योऽतिदे. शादिभ्यस्तद्विारीता अग्रतादिविधयः पूर्व प्रवर्तन्ते,ततः प्रवर्तमानौ चातिदेशसामान्यविधी शरशास्त्रानुरोधेन कुशेष्विव प्रत्यक्षाग्रतादि- विध्यधिगतत्वानुरोधेनाग्रतादिषु नैव प्रापणभावं भजत इति त. दतिरिक्तविषयावेवावतिष्ठेने, अबाधितत्ववदनधिगतत्वमपि हि प्रामाण्यसिद्ध्यै विषयस्यावश्यकमिति स्फुटीकृतमौत्पत्तिकमूत्रैकदे. शे जैमिनिना 'अव्यतिरेकश्चार्थेऽनुपलब्धे तत्पपाण'मिति । य. द्यप्यग्रताधिगमप्रयोजनं नित्यत्वप्राप्त्यायन्यदस्ति तथापि न तद् ‘दन्नाजुहोती'त्यत्र दोहोमाङ्गत्वमित्र क्रियानुवादलभ्यम् ,अतः शीघ्रप्रवृत्तविधिनाऽवश्यविधेयस्य पुनर्विधानवैयदितिदेशादेर. ग्रताव्यतिरिक्तविषयत्वमवश्यं वाच्यम् , तत्तच्छाखीयविधेश्च तत्तत्पु. रुपविषयत्वम, एवं च केनापि प्रत्यक्षशास्त्रार्थालोचनात्पूर्वपालोचि- तादतिदेशादेर्यधप्यग्रतादिप्राप्तिरनुभूयते तथापि नासौ वस्तुत इति भवत्युक्ताव्याप्तिनिरासः । नन्वेवमाक्षेपात्मागवघातविधानादवघा- तविधेरपूर्वविधित्वापातः । मैवम् । यदर्थात्मामोति न तच्छास्त्रार्थ इति न्यायेनाक्षेपेण सम्भवत्प्राप्तिकावघातस्य प्रत्यक्षशास्त्रेण प्रापणसम्भवात् नियमलक्षणया श्रुतविधेरवघातनियमपरत्वमेव चूमः अवघातेनैव वितुषीकुर्यादिति, उचितं चैतत् नियम- तज्जन्यादृष्टयोर्जन्यजनकभावस्य शास्त्रेकसमधिगम्यत्वे सति क- ल्प्यशास्त्रविषयत्वापेक्षया श्रुतशास्त्रविषयत्वस्वीकारे लाघवात्, अ. नयैव दिशा पूर्तीकविधावाधाराङ्गभूतहेरण्यगर्भमन्त्रविधौ च नि- यमविषयतया विधेयप्रापकत्वाभावान्नातिव्याप्तिः । नचाप्राप्तनियम- मापकत्वेनैव तदापत्तिः श्रुतशब्दात्स्वरसतोविध्यन्वयितया प्रती-