पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- नियमविधिनिरूपणम् । स्वस्यानवच्छ दकत्वापत्तेः, नापि तदन्यूनवृत्तित्वं प्रोक्षण भावनोद्देश्षेष्वपि यवेधसतोत्रीहिचस्यानवच्छेदकत्वापत्तेः । न च पराभिमतः स्वरूपसम्बन्धविशेषः यथा हि कार्यकारण. सम्बन्धबोधकपमाणेन यद्धविच्छिन्ने कार्यताप्रमा कार्यताप्रमा जन्यते तस्मिन्नेव स्वरूपसम्बन्धात्मिका कार्यतावच्छेदकता सिद्ध्यति तथोद्देश्यविधेयसम्बन्धबोधकेन विधिना यद्धर्मावच्छिन्नं उद्देश्य प्रतीयते तस्मिन्नेव धमें तादृश्युद्देश्यतावच्छेदकता सिद्ध्यन्ती सिद्ध्येत् , तच्च व्रीहित्वावच्छिन्नोद्देश्यताविधिना प्रतीयते तद- चच्छिन्नोद्देश्यताबाधेन लाक्षणिकापूर्वीयत्वावच्छिन्नोद्देश्यताकल्पना- न् । अथापूर्वसाधनत्व लक्षकरूपमेवाद्देश्यतावच्छेदकत्वेन विवक्षित. मिति चेत् न, अपूर्वीयत्वान्येयस्य वैयोपत्तेः 'म्वर्गकामोयजेते'. त्यादौ स्वर्गवादेरतथात्वेनाव्याप्त्यापत्तश्च । अयोद्देश्यविशेषणत्वेन श्रुतमेव तथात्वेन विवक्षितमिति चेत् । न, 'विश्वजिता यजेते' त्यादौ स्वर्गवादेरतथात्वेनाव्याप्स्यापत्तेरिति चेद । उद्देश्पविशेषण- तया प्रकृतीवधौ प्रतीयमानमेव तथात्वेन विवक्षितमिति मः । अति- देशभिनेतिविशेषणाद्वकृतेष्वन्यातग्राह्यविधिषु द्वादशादिकत्र्यनीका- न्तर्गताग्रताविध्योश्च नाव्याप्तिः तत्र तत्राग्न्यतिग्राह्याग्रताविशेषाणा- मतिदेशत एव सम्भवत्पाप्तिकत्वात समानशाखीयतिविशेषणात् शा- खान्तरीयविधितः सम्भवत्माप्तिकान्यग्निहोत्रादिकर्माणि विदधत्स्व. पूर्वविधिषु नाव्याप्तिः । स्वसमानशाखीयत्वं च यत्र स्वाम्नानं तस्यां शाखायामाम्नातत्वं न विवक्षितं 'कुमारा विशिखा इव धन्वन्निव प्रपा असिइयादिमन्त्राथुन्नेयेष्वपूीवधिष्वव्याप्तेः स्वसमानशाखीयत्वा- प्रसिद्धेः आदेशान्येत्यस्य वैयापत्तश्च आनाम्नातस्य तस्या- म्नातत्वनैव निराकरणसिद्धेः, किन्तु स्वप्रतीतिप्रयोजकं यच्छा- खीयाम्नातप्रयोज्यप्रतीतिविषयत्वं, स्वप्रतीतिप्रयोजकत्वं च स्वी. याम्नातवत्परकीयाम्नातस्यापि सम्भवतीति नोक्तदोषः । न च .