पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- मात्तेनिर्णयात्कृत्स्नपाशुकैष्टिकप्रयोगसमाप्त्यन्तरमेव तत्प्राप्नुयात् नतु पत्नीसयाजान्तान्यहानि प्रकृते वचनाभावे पक्षेऽपि प्राप्नु. युरिति । नैवम् । आस्तां तावत्तादृशसोमयागस्य अहःशब्दवाच्यत्वं, तावता हारियोजनानन्तरमेवावस्थानप्राप्तिस्तु कथं ? भवति हि ततः प्रागपि यत्र कचिदवस्थान साहित्यसिद्धिर्यागद्वादशत्वं च, तथोत्तरकालीनपदार्थावस्थानपि सुतरां तत्सिद्धिः । यस्त्वैकाद. शोन्यायः स यावता तन्त्रत्वं साहित्यसिद्ध्यर्थमपेक्ष्यते ताव विहायान्यानेव पदार्थान् विषयीकुर्यात, न तु साहित्यबाधापाल मिति सुधीभिरूह्यम् । परे तु स्वाऽप्रवृत्ती अपूर्वायत्वान्यस्वाद्देश्यतावच्छेदकरूपे. णातिदेशभिन्नस्त्रसमानशाखीयविधिना सम्भवत्सर्वोदेश्यानुवृत्तमा प्तिकभावविषयोविधिरपूर्वविधिरिति अपूर्वीयत्वेन रूपेण बीहि- ध्वत्यन्तापाप्तमवघातं विदधत्यवघातविधावतिप्रसङ्गवारणायापूर्वी यत्वान्येति, तदन्यदुद्देश्यताच्छेदकं बीहीन्योक्षति' 'त्रीहीनवहन्ती'- त्यत्र व्रीहित्वं, तेन च रूपेण तादृशपुरोडाशविधिनाऽवधा. तस्य सम्भवत्प्राप्तिकत्वात्प्रोक्षणस्यासम्भवत्माप्तिकत्वाच्च नाति- प्रसत्यप्रसक्ती । तादृशोद्देश्यतावच्छेदकरूपेणेतिविवक्षणेनैव गावा- मयनिकाद्याहयगतयोरेन्द्रवायवाग्रताविध्यो शिकस्वर्गकामविधी 'विघा तण्डुला' नितिदेवताचयननिधौ च नाव्याप्तिः उयनी- काविधितः प्रथमभागत्वरूपेणैन्द्रवायवाग्रतायाः प्राप्तिसम्भवेपि स्वोद्देश्यतावच्छेदकाहस्त्वरूपेण प्राप्त्यसम्भवात् सार्वकाम्यवि. धितः काम्यभावत्वरूपेण दर्शप्राप्तिसम्भवेपि स्वर्गवरूपेण सद- भावात् देवतान्तरसंयोगविधितोमध्यमत्वादिरूपेण पूर्वदेवतापनः यमाप्तावपि संयुक्तहविष्टरूपेण तत्मातेरभावात् । अथ किमे- तदुद्देश्यतावच्छेदकत्वं व्रीहित्वादिगामि ? न तावदुद्देश्यतानति. रिक्तचित्वं प्रोक्षणभावनानुद्देश्यलौकिकबीहिसमवेतस्य नीहि-