पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- कल्प्यत्वादिति वाच्यम् । ऋतुनिरूपितसम्बन्धवत्तयाऽनृतवर्जनप्राप्ती स्वफलत्वाभावनिर्णायिकाया मानान्तरफलतायाः सत्त्वात् । सम्भव- ति हि क्रतूपकारकतयाऽनृतस्यवानृतवर्जनस्यापि कदाचित्प्राप्तिः । एतेनातिदेशपाप्तवकल्पिकादृष्टार्थाङ्गस्य नियमार्थे विधावातव्या- प्तिः तत्रहि न नियमस्यादृष्टजनकत्वं कल्प्यते, किंतु यथा प्रकृता. वनभ्यस्तप्रयाजजन्यतयाऽदृष्टोपकारः ‘स पशावभ्यस्तप्रयाजैर्जायत' इतिवचर स्वीक्रियते तथा प्रकृतावुपायान्तरेण जातमप्य दृष्टं विकृतावेकेनैवोपायेन जायत इति स्वीक्रियते, तद्यथा 'उत्तरेहन्द्वि- रात्रस्य गृह्यत' इति । यथावा मिश्रमते विकृतौ 'रथंतरं पृष्ठं भवति' इत्यपि परास्तम् । तत्रापि तादृशमाप्तौ तादृशस्यातिदेशाख्यमानान्तरफलत्व- स्य सत्वात् , तथैव ह्यवघातविध्यभावेऽपि पाक्षिकावघातमाप्ति माक्षेपतः सम्भावितामालोच्य वदन्ति न्यायविदः नास्य विधे- रवघातप्राप्तिः फलमपितु तन्नियमः, शक्यत एव तथाऽति. देशतः षोडश्यादिप्राप्तिमालोच्य मुतरां वक्तुं नास्य विधेः पो. डश्यादिप्राप्तिः फलमिति । नच 'न भूपालैरनुत्सव' इसादौ निपे. धमुखपरिसङ्ख्यास्थलेऽतिप्रसङ्गः भूपालैरुत्सवे धार्यमित्यभ्यनुज्ञा- रूपेण विधिना विधेयसम्बन्धनिरूपकेऽपूर्वसाधनताया अनाक्षेपात । नापि निषेधापवादत्वसाम्येपि 'पूषा प्रपिष्टभागो' 'घृते अपयती'- खादावप्रसङ्गः तयोर्निरूपकवृत्त्यपूर्वसाधनताक्षेपकत्वात् 'विवाहे ऽनृतं वदे'दित्यभ्यनुज्ञाविधौ परमप्रसङ्गोस्ति,युक्तश्च सः, तस्यालक्ष्यत्वात असत्यपि हास्मिन्विधौ निषेधातिक्रमभयशून्यस्य प्राप्नोत्येवानृतव. दनं विवाहार्य तद्भयवतस्तत्याप्त्यर्थ परमेषविधिः अतोऽत्यन्ताप्राप्त विषयत्वाभावे कथमपूर्वविधित्वं स्यात् । यदि त्वदृष्टार्थपदार्थकत. व्यताप्रापकोनिषेधमुखप्रवृत्तपरिसख्याविधिः कश्चित्सम्भाव्यते यथा 'इदान्ताऽऽतिथ्या सन्तिष्ठते"नयत्रानुयाजान्यक्ष्यन्भवतीत्यत्र'