पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रफलत्वमनुपपद्यमानं स्वफलत्वमपेक्ष्यते तत्कथं तद्वाचं कुर्या दिति युक्त एवं विशिष्टाभावः । एतेन सार्वकाम्यविधिप्राप्तस्वर्गफलकत्त्वप्रापके विधावव्या. प्तिनिरस्ता । अध्ययनविधिर्हि सर्ववेदवाक्यानां फलव्य- वस्थापकः स च विधिलभ्या लाक्षणिकीमपि प्राशस्त्यधियम- र्थवादफलत्वेन स्वीकुचन स्वस्याविधिफलवं निराचष्ट किमु वक्तव्यं शत्या क्रियमाणायां स्वर्गफलकत्त्वप्राप्तिमनन्यफलस्व. कामविधिफल बनाङ्गीकृत्य सार्वकाम्यविधिफलत्वं तस्या- निराचष्ट इति । तुल्पं च विधेः प्रवर्तनावोधनेत्र सार्वका- म्यविधेः स्वर्गेतर फलसम्बन्धबोधेन चरितार्थत्वं तेन पूर्वत्र नि. र्णायकत्वान्तविशेषणाभावाद्विशिष्टाभावः इह तु मानान्तरफलत्व. रूपविशष्याभावात् । अध्ययनविपनालोचने शक्यते विहापि विशेषणाभावप्रयुक्नोविशिष्टाभावः यागे स्वर्गसाधनत्वप्राप्तः सा- काम्यविधिफलत्वात्स्वर्गकामावधिफलवाभानः एतत्फलवाद्वा तत्फलत्वाभाव इत्यत्र विनिगमनाविरहस्यापि सुपचत्तात् नचावधातावधिना हान्तरिव स्वगकापाविधिना सगफलक त्वं नियम्यते येन तत्प्राप्तः सार्वकाम्यविधिफलत्वं नाध्य- यनविधि धेत न स्वीकुर्याच स्वगकामविविफलत्वं नियम- विधानेनैव फलवत्वोपपत्तेः । प्राकृतपदार्थानुरक्तोपकारान्दृष्टा- दृष्टरूपान्विकृती प्रापयतीसतिदेशस्य विषयभेदेना पूर्वविधित्वनि यमविधित्वव्यवस्थापनाय लक्षणे सम्बन्धनिरूपकाभिधायियत्तच्छ. ब्दप्रवेशः न तु 'यद्योन्यां गायति तदुत्तरयोर्गायति' 'सृष्टीरुपद- धाती'त्यादौ विषयभेदेन तदुभयरूपत्वव्यवस्थापनाय सः । रथ- न्तरादौ योनिविषमच्छन्दस्कयोरुत्तरयोर्वाचनिकेष्टकानां मध्यचिति सम्बन्धस्य चात्यन्ताप्राप्तत्वेपि दृष्टार्थत्त्वानियमा दृष्टाक्षेपकत्वाञ्च त- स्मिन्नंशेपि विधेनियमविधित्वमेव यतो युक्तं वक्तुं ईदृशरीत्या स्त्री