पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्ततावच्छेदकनिरूपणम् ।। नैव क्वचित्कन्वयादन्यत्र तत्मसक्तिशङ्कावसरः । यदा यथै- वाऽऽख्यातत्वाविशेषेपि परमते प्रतीतिविशेषमनुसृत्य कचित् कर्बभिधायिनो न सर्वे, तथाऽस्मन्मते पचति पच्यतइत्यादीनां पाकं करोति पाकः क्रियते इति करोतिविवरणाऽविशेषा- समेपि भावनावाचित्वे कचिदेव कर्तृगतसङ्ख्याभिधानं न स- वत्र, भवतीसत्र तु भवनकर्तरि भावनाया बाधानव वक्ष्य- माणभावनाबोधकमाख्यातं, किन्तु तेन व्यापारमात्रं बोध्यते तत्र च धात्वर्थोऽभेदेनान्वेति घटादिस्त्वाश्रयत्वेनेति बोध्यम् । अतएवोक्तम्- (१)"सिद्धकर्त्रक्रियावाचिन्याख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थो ऽवगम्यते" इह हि केभ्यश्विद्धातुभ्यः परा तिङ्गविभक्तिरुचार्यमाणा- (१) आख्यातस्य भावनावाचित्वमाक्षिप्तं समाधातुं करोत्य- र्थवाचित्वं तावदुपपादयति । सिद्धति । किं करोति पचतीति करोतिसामानाधिकरण्येनाख्यातप्रत्यये करोत्यर्थों वाच्योऽय- गम्यत इत्युक्ते भवत्यादिपराख्यातप्रत्यये करोत्यर्थसामानाधिक- रण्याभावात्करोत्यर्थवाचित्वं न सिञ्चतीत्याशङ्ख्य सिद्धत्युक्तम् । आक्षेपवाद्यसिद्धमपि आख्यातप्रत्ययस्य क्रियावाचित्वं स्वसिद्धा- न्तसिद्धमङ्गीकृत्य नाख्यातमात्रस्य करोत्यर्थवाचित्वं ब्रूमः किन्तु करोतिसामाधिकरण्यवतामेवाख्यातानामिति ख्यापनाय सि. द्ध कर्तृक्रियावाचित्वमुपलक्षणं कृतम् । यद्वा ये धात्वर्थस्य स्व- रूपेण धातुनाऽभिहितस्यापि निष्पाद्यत्वलक्षणक्रियारूपेण प्रमा- प्रत्ययवाच्यत्त्वमङ्गीकृत्य मीमांसकाभिमतधात्वातिरिक्तं भाव्य- निष्ठभावनावाचित्वं प्रत्ययस्य नेच्छन्ति तान् प्रति भावनावा- चित्वं साधयितुं करोत्यर्थवाचिताऽनेन साध्यत इत्यदोषः । नन्वसिद्धकर्तृविषयवस्त्यादिपरवाख्यातेषु करोतिसामाधिक रण्याभावेन करोत्यर्थक्रियावाचित्वाभावात्सद्यावृत्त्यर्थ सि. द्धविशेषणं व्यर्थमित्याशय भाव्यनिष्ठभाषनारूपकरोतिषाच्य-