पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| १८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यतः केवलं तादृशधर्मान्तरासमानाधिकरणं अतोलिङन्येव सदपि सदेव शक्ततावच्छेदकमित्यर्थः । __स्यादेतत्-नाख्यातत्वं भावनाशक्ततावच्छेदकं पच्यते इत्यादिषु भावकर्मप्रत्ययेषु भावनाभिधाने भावनया च काक्षेपे सति पचतीतिवत् कर्तर्येव सङ्ख्यान्वयप्रसक्तेः भवति जानातीत्यादौ भावनाप्रतीत्यापत्तेश्च अध्येतव्य इ. त्यादौ तव्यस्याऽनाख्यातत्वेन भावनाबोधकत्वानुपपत्तेश्व, नापि लिक्वं विधिशक्ततावच्छेदकं "हविरार्तिमार्छत्" "जतिलय. वाग्वा जुहुयात्" इत्यादौ विध्यापत्तेरत आह । तत्रेति । तृती- येत्यम्भावे । आख्यातत्वरूपेण लिवरूपेण च भावनोच्यत एवेत्यक्षरार्थः । कर्तृप्रत्ययेषु भवनाख्यप्रयोज्यव्यापारोवाच्यशरी- रपविष्टोऽथवाऽऽक्षेपलभ्यः प्रयोजकव्यापारोपसर्जनत्वेन प्रतीयते- कर्मप्रत्ययेषु, भावप्रत्ययेषु तु प्रयोजकव्यापार प्रति विशेष्यत्वे- न । यथाहुः- ___"कदाचित्पुनः समानपदैकदेशोपात्तोपसर्जनीभूतप्रयोज्य- क्रियः प्रयोजकव्यापारोविवक्ष्यते क्रियते कटोदेवदत्तेन" इति । एवं च पचतीत्यादिजन्यप्रतीतौ विशेष्यभूतं प्रयोजकव्यापारं प्र- त्याश्रयत्वेन कर्ताऽन्वेति, पच्यते ओदन इत्यादौ तु विशेषणीभू- सव्यापार प्रति कर्तुराश्रयत्वेनान्वयात् विशेष्यभूतव्यापार प्रति कर्माऽऽश्रयत्वेनान्वेति । एवं च भावप्रत्ययस्थलेपि पाकः क्रियत- इत्येवं कर्मप्रत्ययेनार्यविवरणाद्विशेष्यभूतव्यापार प्रति धात्व- ई एवाश्रयत्वेनान्वेति । पच्यते स्वयमेवेत्यत्र तु विशेषण- विशेष्यभूतो व्यापारी प्रत्येकस्यैवाश्रयत्वं, आख्यातजन्य- प्रवीतिविशेष्यव्यापार प्रति च समानाभिधानश्रुत्या शेषत्वेना- |वितायाः सङ्ख्याया द्वारापेक्षायां तादृशव्यापाराश्रयपरि- | च्छेदो द्वारमाश्रीयत इति नियमस्य सर्वाख्यातेषु स्वीकरणा-