पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. साधुत्वनिर्वचनम् । .. १७ लित्वं च । आख्यातत्त्वं च दशसु लकारेषु विद्यते । लिङत्त्वं च पुनः केवलं लिङयेव । तत्राख्यातत्वलि- न गाव्यादितुल्याः स्युरिति शङ्क्यं सर्वसमभिव्याहारे स्वो- पस्थित्यनपेक्षार्थबोधकगवादिस्मारणेनार्थबोधकतया गाव्या. दीनामशक्तिमत्त्वरूपापभ्रंशत्वस्य सम्भवात् । नहि गाव्या- दिशब्दोपस्थितिमनपेक्ष्य गवादीनामिव, तिवाद्युपस्थितिमन पेक्ष्य लकारस्यार्थबोधकत्वमस्ति येन तद्वदशक्तिमत्वं तिवा- दिषु वक्तुं शक्येत । यद्यप्यौकारस्याऽस्ति स्वातन्त्र्येण बो- धकत्वं तथा ऽपि न सर्वसमभिव्याहारे, वारिणीइत्यादिसम- भिव्याहारे आदेशस्मारितस्यैव तस्य बोधकत्वात् । नचाना- दिवाचकत्वं साधुत्वं येनावाचकेषु कथं स्यादिति शङ्क्यम् । कर्मधारयोत्तरभावप्रत्यये भावप्रत्ययोत्तरकर्मधारये वा सा- केतिकेषु तदभावेन साधुत्वस्य तादूप्यासम्भवात् । अनादेराव- पनवाचिनोगोणीशब्दस्य गवि साधुत्वापत्तेश्च । अथैतद्दोष परिहाराय यदर्थवाचित्वं यस्यानादि स तत्र साधुरित्युच्येत साङ्केतिकानां सादित्वेपि तच्छक्तेरनादित्वेन च तेषु साधुत्वमु- पपायेत ? तन्न, लक्षणया गौण्या धार्थान्तरेषु प्रयुज्यमानानाम- साधुत्वापत्तेः । तस्मात्सर्वसमाभिव्याहारेषु स्वोपस्थित्यनपेक्षार्थ- बोधकशब्दस्मरणं विनैव यः शब्दो यमर्थ बोधयति स तत्र साधु- रित्यवश्य वाच्यम् । सम्भवति चैवसति गवादीनामिव तिवादी- नामपि साधुत्वमिति ज्ञेयम् । ___ अथ भावनावाचिसाख्यातानुस्यूतमाख्यातत्त्वं यथा भावनाशक्ततावच्छेदकमङ्गीकियते तथा विध्यभिधायिलिङ्लो- डायनुस्यूतं विधिशक्ततावच्छेदकमङ्गीकार्य न लिड्वं तबाह । लिङिति । आख्यातत्वाद्वैलक्षण्यद्योतनार्थः पुनः शब्दः । -