पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P ande १६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तग्राहित्वं प्रसिद्धं स इत्युक्ते तच्छब्दमत्ययात्स एवार्थ" इति वार्तिकं व्याचिख्यासता न्यायसुधाकृता “सर्वनामतच्छन्दादे- शेन स इत्यनेन स्थानिनः तच्छब्दस्य प्रत्ययादित्यन्यथा व्या- चष्ट इति । यस्तु “तिौँ कर्तृकर्मणि"इत्यादौ काद्यादेशार्थ- त्वव्यवहारः स स्थानिस्मृतिमुखेन तज्ज्ञाप्यत्वाभिप्रायेण नेयः इदानीन्तनानां तु आदेशे शक्तिभ्रमादनुपस्थितेपि स्थानिनि अर्थबोधोपपत्तिरित्युच्येत । नैतत् । स्थानिनः स्वरूपेणार्थ- बोधकत्वानुपलम्भात् । यदि हि घटावित्यत्रौकारस्येव लका- रस्य कचिदर्थबोधकत्वं स्यात् तदा वारिणीत्यत्रौकारादेश- स्यौकारस्मारकत्ववत् लादेशस्य लकारस्मारकत्वमाश्रीयेतेत्यत आह । आख्यातत्त्वं चेति । यद्दशसु लकारेषु वर्तते लत्वं तदेव आख्यातत्वमित्यन्वयः । न ह्येवंरूपं धातुष्वनुगतं धातुत्वं वक्तुं शक्यम् । ऋक्त्वादिन्यायेन चानेकवर्ण- समूहात्मकेषु धातुषु न धातुत्त्वं जातिः । धातुवाच्यत्वे च भावनाया यागदानादिशब्देभ्योपि भावनाप्रतीतिप्रसङ्गः । यद्या- ख्यातान्ते धातुवाच्यतोच्येत तर्हि लाघवादस्त्वाख्यातवाच्य- त्वम् । यथा चैकवर्णात्मका अकारादयोविष्ण्वादिषु शक्ताः सदा सन्तोपि न तान्सदा बोधयन्ति । नाप्यकारादिपदोप- स्थापिताः श्रोत्रलिप्यन्यतरजन्योपस्थितेरेव तेषु शब्देषु तत्तदर्थ- बोधाख्यफलोपधानावच्छेदकत्वात् । तथा लाघवात् "लः कर्म- णि" इत्यादेर्वेदाङ्गान्तःपातित्वेन वैदिकपरिगृहीतपाणिनीयवच- | नाच लत्वेन शक्तिग्रहे जातेऽपि तिवाद्यादेशजन्योपस्थितेरे- व भावनोपस्थितिफलोपधानावच्छेदकत्वात् न स्वरूपेणोचा- रिताच्छतृशानभ्यां वा स्मारिताल्लकाराद्भावनाप्रतीत्यभावो दोषाय । नच स्वयमशक्ताः शक्तशब्दान्तरस्मरणेनार्थवोधार्थ प्रयुक्ताः शक्तिभ्रमाच्च शक्तत्वेन कैश्चियवहतास्तिवादयः कथं