पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारविधिनिरूषणम् सहकारिणीति न्यायात् । तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न त्वङ्गासमर्थः प्रधानमात्रसमर्थश्च काम्ये कर्मण्यधिकारी । प्रधानविधेरङ्गविध्येकवाक्यता- पन्नस्य साङ्गकर्मसमर्थ प्रत्येव प्रवृत्तेः यथाविनियोग- मधिकारात् । याद हिं समर्थं प्रत्येव प्रवृत्तौ कया चित् श्रुत्या विरोधः स्यात् तदा ऽसमर्थस्याप्यधिकारः स्यात न च विरोधोऽस्ति । स्वर्गकामश्रुतेः समर्थं प्रत्येव प्रवृत्ती विरोधाभावात् । प्रत्युतासमर्थ प्रति प्रवृत्तौ प्रधानवि- धेरङ्गवाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधा- पत्तेः । नित्यवत श्श्रुतानामङ्गानां पाक्षिकत्वप्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः । नित्यकर्मणां त्वङ्गेषु यथाशक्तिन्यायः । तानि हि यावज्जीवश्रुत्या यावज्जीवं कर्तव्यत्वेन चोदिता नि । न च यावज्जीवं केनापि साङ्गः प्रयोगः कर्तुं शक्यते । अतोनित्यकर्मसु प्रधानमात्रसमथाधिकारी, अङ्गानि तु यावन्ति कर्तुं शक्यन्ते तावन्ति कार्याणी- भकर्मधारयेऽन्यपदार्थस्याभुतविभक्त्यर्थान्वयः कल्यः, येन त- लक्षणाऽऽपद्यत, श्रुतद्वितीयाया एक पदयान्वय इति सूच- यितुं दृश्युत्तरभाविन्या अपि विभक्तेवृत्त्यर्थकथनपरे वाक्ये नि- देशः । नित्यकर्मणामिति । अवश्यकर्त्तव्यतया विहितानाम- त्यर्थः । तानिहीति । आधं तृतीयान्तं निमितश्रुतिपात्रोपलक्ष- णार्थ, दितीयमवश्पकर्तव्यतायाः । पावजीयमिति । प्रतिनिमि-