पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- देष्ट्याम् । निषादस्थपतिशब्दे हि निषादश्चासौ स्थपति- श्रेति कर्मधारयो, न तु निषादानां स्थपतिरिति षष्ठीत- त्पुरुषः षष्ठ्यर्थे लक्षणापत्तेः । एतावांस्तु विशेषः नि- पादस्याध्ययनविधिसिद्धज्ञानाभावेन एतस्यैव विधेस्त- कर्मोपयिकज्ञानाक्षेपकत्वम् । पत्न्यास्तु तादृशज्ञाना- भावपि यजमानेन सहाधिकारात्तस्य च तादृशंज्ञान- वत्वात्तेनैव च तस्याः कार्यसिद्धेर्नोत्तस्क्रतुविधीनां ज्ञानाक्षेपकत्वम् । ये तु पत्नीमात्रकर्तृकाः पदार्था आ. ज्यावेक्षणादयस्ते ज्ञानं विनाऽशक्यानुष्ठाना इति त- द्विधीनां तदाक्षेपकत्वं स्वीक्रियते इति । तत्सिद्ध- मध्ययनविधिसिद्धज्ञानस्याधानसिद्धाग्निमत्तायाश्चोत्तर- कर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । अस- मर्थ प्रति विध्यप्रवृत्तेः । आख्यातानामर्थं ब्रुवतां शक्तिः स्वातन्युनिषेधशास्त्रार्थो ऽत आह । स्वात्त्र्येणेति । तत्र हेतुमा. है । यजमानति । पत्नीति । यजमानपत्रीशब्दौ हि स्वामिवचनौ यजत इत्यर्थे यजमानपदव्युत्पत्तेः । “पत्युनों यज्ञसंयोगे "इति स्वरणाच्च । गम्मिश्चः प्रयोमे अवेक्षणं विधीयते तत्प्रयोगनिरूपि. तस्वामित्वमेव सच्छन्दार्थः । यथा "पितृभ्यो दद्याद्"इत्यत्रं यं प्रति दानाविधिः तनिरूपित्तपितृवं पितृपदार्थः, तथैवानुभवात् । तथा- वनविम्वत्कथं चिदानतेचान्यतरेणात्रेक्षणादपूर्वसिद्धिरित्याशयः। निषादधेति । षष्ठीतत्पुरुषे नियाददार्थस्थाश्रुतषष्ठयान्वनव-