पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेषणत्वात ग्रहैकत्ववदविवक्षितत्वेन स्त्रिया अधिकारस्य साधितत्वा- दिति चेत्-सत्यम् । अधिकारः साधितो न तु स्वातन्त्र्ये- णा, न स्त्री स्वातन्त्र्यमर्हति इत्यादिना तस्यनिषिद्धत्वान् । ने स्त्री स्वातन्त्र्यमहतीति । रक्षेत्कन्यां पिता विना पतिः पुत्रास्तु वाईके ) , अभावे ज्ञातयस्तेषां स्वातन्त्र्यं न कचित् स्त्रियाः' ।। इत्यस्य सङ्ग्रहायादिशब्दः । ननु नैतच्छास्त्र स्त्रीणां विहिते कर्मणि स्वतन्त्राधिकारनिषेधाप, स्मरन्ति हि पूर्तव्रतादौ तासां स्वतन्त्राधिकारम् । नापि धनस्वामि- त्वप्रतिषेधाय, "पजीबुहितर" इत्यादिना तासामपि रिक्वग्राहित्वस्म रणान् । तनिषेधे सहाधिकारस्याप्यसम्भवाच्च । अथ पुत्राणामिव पत्रीनामपि तुल्ये स्वत्वविभागकालेऽशग्रादित्वं स्यात् ? अस्त्येव तत् । 'यदि कुर्यात् समानंशान् पत्न्यः कार्याः समांशका' इति । .. अध बहूनामविभक्तानां संसृष्टभ्रातृणामिव तत्पनीनामपि तुल्ये स्वत्वे कस्थानिन्मृनभर्तृकायाः कथं स्वत्वनितिः, तनिवर्त- कविक्रयायभावे तमित्ययोगात् । न च नास्त्येवेति वाच्यम् । 'यट्रिभक्ते धनं किनिहायादि विविधं स्मृतम् । तज्जाया स्थावर मुका लभते मृतभर्तृका ॥ वृत्तस्थाऽपिः कृतेऽयंक न स्त्री स्वावरमईति' । इति । बृहस्पतिना 'विभक्ते स्थावरभिन्नं लभते' इति वदता विभागा भावे तदपि,न लभत इति सूचनात् । सकलसिवन्ध सम्मतत्वाच्च तस्या इति चेत् , आस्ती सा, संन्यासपातित्यादिवर्तृमरणादेरपि वाचनिकस्वत्वनिवर्तकत्वाभ्युपगमसम्भवात् । न च स्थावरस्वत्व- निषकाय तच्छास्त्रम् । अत एघ बृहस्पतिना विभक्तमृतभकाया han A