पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३७ 5 अधिकारविधिनिरूपणम् । र्णिकाधिकारत्वात् । यद्यपि च वर्षात रथकारोग्नीनादधीत'इत्यनेन स्थ- कारस्य सौधन्वनापरपर्यायस्याधानं विहितं, योगादूढेब- लीयस्त्वात, तथापि नास्योत्तरकर्मस्वाधिकारः, अध्यय- नविधिसिद्धज्ञानाभावात् । न च तदभावे आधानेपि कथमधिकारः, तदनुष्ठानस्य तत्साध्यत्वादिति वाच्यम् । तस्याध्ययनविधिसिद्धज्ञानाभावपि 'वर्षासु स्थकारोग्नी- नादधीत'इत्यनेनैव विधिनाऽऽधानमात्रौपयिकज्ञानापेक्ष- णात् । अन्यथा एतस्यैव विधेरनुपपत्तेः । अतश्च स्थ- कारस्याधानमात्रेऽधिकारोप नोत्तरकर्मस्वधिकारो विद्या- भावात् । एवं च तदाधानं नामिसंस्कारार्थम् , संस्कृता- नाममीनामुत्तस्त्रोपयोगाभावात, किं तु तदाधानं लौ- किकानिगुणकं विश्वजिन्न्यायेन स्वर्गफलं च खतन्त्रमेव प्रधानकर्म विधीयते । अमीनिति च द्वितीया 'सक्तूंन् जुहोति इतिवत्तृतीयार्था इति। प्रकृतमनुसरामः । तत्सिद्धं शूद्रस्याध्ययनविधिसि- द्धज्ञानाभावादाधानसिद्धाग्न्यभावाञ्च नोत्तरकर्मस्वधि- कार इति । नन्वेवं स्त्रिया अधिकारो न स्यात; तस्या अ- ध्ययनप्रतिषेधे तद्विधिसिद्धज्ञानाभावात् । न च ना- स्त्येवेति वाच्यम् । 'यजेत वर्गकाम' इत्यादौ वर्म-