पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितपीमांसान्यायप्रकाशे- मित्ते कर्म विदधद्भिनिमित्तवतः कर्मजन्यपापक्षयरूपफ- लस्वाम्यं प्रतिपाद्यते । तच्च फलस्वाम्यं तस्यैव, योऽधिकारिविशेषणवि- शिष्टः । अधिकारिविशेषणं च तदेव, यत्पुरुषविशेष- णत्वेन श्रुतम् । अत एव 'राजा राजसूयेन स्वारा- ज्यकामो यजेत'-इत्यनेन स्वाराज्यमुद्दिश्य राजसूर्य विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते, किंतु राज्ञः सतस्तत्कामस्य । किञ्चित्तु पुरुषविशेषणत्वेनाश्रुतमप्याधिकारिविशेषणं भवति । यथाऽध्ययनविधिसिद्धा विद्या, अग्निसाध्येषु च कर्ममु आधानसिद्धाग्निमत्ता, सामर्थ्य च । एतेषां पु- रुषविशेषणत्वेनाश्रवणेप्यधिकारिविशेषणत्वमस्त्येव उत्तरक्रतुविधीनां ज्ञानाक्षेपशक्तेर्भावनाध्ययनविधिसि- द्धज्ञानवन्तं प्रत्येव प्रवृत्तेः, अग्निसाध्यकर्मणां चा- ग्न्यपेक्षत्वेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तः। अत एव च शूद्रस्य न यागादावीधकारः । तस्या- ध्ययनविधिसिद्धज्ञानामावात, आधानसिद्धाग्न्यभावाच्च, अध्ययनस्योपनीताधिकारत्वात, उपनयनस्य च 'अष्टवर्षे ब्राह्मणमुपनयीत' इत्यादिना त्रैवर्णिकाधिकारत्वातू, आ- धानस्यापि 'वसन्ते बाहामोमीनादधीत इत्यादिना त्रैव-