पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ष्ठानमशक्यम् । न ह्यनेकेषां पशूनामुपाकरणमेकस्मि- काले कर्तुं शक्यम् । अतस्तेषां साहित्यमव्यवधानेना- नुष्टानात्सम्पाद्यम्-एकस्योपाकरणं कृत्वा ऽपरस्योपाक- रणमिति । अतः प्राजापत्येषु एकं पदार्थ सर्वत्रानुष्ठाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्ठानं क- स्माचित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थो ये- म क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्टयः, प्रयोग- विध्यक्गतस्य मिथोऽङ्गसाहित्यस्योपपत्तये । प्रयोगवि- धिना हि देक्षे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्यमानन्तर्यापरपर्याय विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम् । तस्य प्राणिद्रव्यकत्वेन दैक्षविकृतित्वात् । सवनीयाच्चैकादशिने प्राप्तं सुत्या- कालत्वसामान्यात् । तेभ्यश्च प्राजापत्येषु प्राप्तं गणत्व- सामान्यात । प्राजात्येषु च प्रतिपशु यागभेदाच्चोदका भिद्यन्ते । अतश्वोदकात्तत्तत्पश्वङ्गभूतानामुपाकरणनि योजनादीनां साहित्यमानन्तर्यापपर्यायं प्राप्तम् । अत एकस्य पशोरयाकरणानन्तरमेव नियोजन, चोदकब- लात्कर्त्तव्यत्वेन प्राप्तम् . तत्तु न क्रियते, प्रत्यक्षवचना- वगतसर्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् प- शावुपाकरणे. कृते तदनन्तरमेव कर्त्तव्यत्वेन प्राप्तमपि पशुनियोजनं न क्रियते, प्रत्यक्षवचनबलात्तु पश्वन्तरेषु