पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३ क्रमप्रमागनिरूपणम् माः तत आग्नेयानुष्ठानं ततः सान्नाय्यानुष्ठानं, तदा तद्धर्माणां स्वप्रधानेन सह द्वाभ्यामागेयधर्मतदनुष्ठाना- भ्यां विप्रकर्षः स्यात् । यदा तु सान्नाय्यधर्माणां केषा- श्चित्पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्यक्रममाश्रित्याग्नेयध- मानुष्ठानानन्तरमनुष्ठीयन्ते, तदा सर्वेषामाग्नेयधर्मसा- त्राय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवति, आग्नयधर्माणां स्वप्रधानेन सह सान्नाय्यधर्मर्व्यवधा- नात् सान्नाय्यधर्माणां च स्वप्रधानेन सहाग्नेयानुष्टानेन व्यवधानादिति न विप्रकर्षः । तस्मान्मुख्यक्रमः प्रवृ- त्तिकमादबलवान् । सहप्रयुज्यमानेष प्रधानेषु सन्निपातिनामङ्गानामा- वृत्याऽनुष्ठाने कर्त्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठित- तपदार्थक्रमाद् यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजाप- त्याङ्गेषु । प्राजापत्या हि “वैश्वदेवीं कृत्वा प्राजापत्यैश्चर- न्ति"इति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताकाः एककालत्वेन विहिताः । अतस्तेषां तदङ्गानां चोपा- करणनियोजनप्रभृतीनां साहित्य सम्पादनीयम् । तत्र प्राजापत्यानां सम्प्रतिपन्नदेवताकत्वेनैकस्मिन्काले ऽन. छानादुपपद्यते साहित्यम् । तदङ्गानां चैकस्मिन्काल नु. संहति । असन्निपातिनां प्रयाजादीनां तन्त्रानुष्ठेयसभिपातिनाम- वाघानादीनां च प्रवृत्तिक्रमागोचरत्वं द्योचयितुं सन्निपातिनामावृपये-