पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२२ भाहालङ्कारसहितमीमांसान्यायप्रकाश- धानं स्यात् । तच्च न युक्तम् । अतो युक्त प्रयाजशे- षेणाभिधारणस्य मुख्यक्रमाक्रम इति । स चा सौ मुख्यक्रमः पाठक्रमाद दुर्बलः । मुख्यक- मो हि प्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बितप्रतिपत्तिः, पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक समात्रसापेक्षतया न तथेति बलवान् । अत एवानेयो योपांशुयाजागीषोमीयानां क्रमेणानुष्टीयमानानामप्युपां- शुयाजाज्यनिर्वापो मुख्यकमान्न पूर्वमनुष्ठीयते. तस्य दुर्बलत्वात, पाठकमात्तु पश्चादनुष्ठीयते, तस्य प्रबल- त्वादिति । स चायं मुख्यक : प्रवृत्तिकमाद बलवान् । प्र- वृत्तिकमे ह्याश्रीयमाणे बहूनामङ्गानां प्रधानविप्रकर्षो भवाति अस्मिंस्तु आश्रीयमाणे सन्निकर्षः । तद्यथा द- शपूर्णमासयोरादावानेयानुष्ठानं ततः सान्नाय्यन्य । त- द्धर्माश्च केचित्पूर्वमनुष्टीयन्ते । तत्र यदि प्रवृत्तिक्रममा- श्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन् तत आग्नेयध- तेविष्टक्रमस्य प्रधानाङ्गयाज्यानुवाक्यायुगुलप्रवृत्तिक्रमतोऽपि सिद्ध न मुख्यक्रमस्यासंकर्णि तत्र प्रामाण्यमित्युदाहरणान्तरमतैरुक्तम् । न च प्रथपपदार्थप्रवृत्तिरेव द्वितीयादिषु क्रानियामिका न भाविपदार्थ- प्रवृत्तिरिति वक्तुं युक्तम्, न्यायसाम्यात् । तत्र यदीति | ययः फि याज्यानुवाक्याछुगुलपतिक्रमानुरोधेनानेयधर्मायम्यमुचितम् , तथाऽधिजक्यप्रवृत्तिक्रधान्मुख्यप्रकृतिक्रमो बलीयानित्याशयेनेदम् ।