पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१ -- क्रमप्रमाणनिरूपणम् । चेतु क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषामङ्गा- नां स्वप्रधानस्तुल्यं व्यवधानं भवति व्युत्क्रमेण त्व- नुष्ठाने केषां चिदङ्गानां स्वैः प्रधानरत्यन्तमव्यवधा- नमन्येषामत्यन्तं व्यवधानं स्यात् । तच्चायुक्तम् । प्र- योगविध्यवगतसाहित्यबाधापत्तेः । अतः प्रधानक्रमो | ऽप्यङ्गक्रमे हेतुः । अत एव प्रयाजशेषणादााग्नेय- हविषोऽभिधारणं पश्चादैन्द्रस्य दना, आग्नेययागैन्द्र- यागयोः पौर्वापर्यात् । अत्र हि योरभिवारणयोः स्वेन स्वेन प्रधानेन तुल्यमेकान्तरितं व्यवधानं भ- वति, आग्नेयहविरभिधारणाग्नेययागयोरेन्द्रयागह- विरभिघारणेन व्यवधानात, ऐन्द्रयागहविरभिधारण- न्द्रयागयोश्चाग्नेययागेन व्यवधानात् । अतश्चादावा- ग्नेयहविरभिधारणं, तत ऐन्द्रस्य हविषः, तत आग्ने- ययागः, ततश्चन्द्रो याग इत्येवं क्रमो मुख्यक्रमात्सिद्धो भवति । यदि त्वादावन्द्रहविषोऽभिधारणं तत आ- ग्नेयस्य क्रियते तदा याज्यानुवाक्याक्रमवशादादावा- ग्नेयस्यानुष्ठानादाग्नेययागतदङ्गहविरभिवारणयोरत्यन्त- मव्यवधानमैन्द्रयागतदङ्गहविरभिधारणयोरत्यन्तं व्यव- - त्यासत्तिलाभ इत्याशयः । अत एव प्रयाजेति । यद्यप्यारे सु- ख्यक्रमोदाहरणत्वेनान्वारम्भणीयागतयोः “सारस्वतौ भक्त इति- विहितयोः स्खी पुंदेवत्ययज्योर्मा निर्वापादय उदाहताः, तथाऽपि