पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- पशुयागाः साद्यस्के चोदकप्राप्ताः। तेषां च तत्र सा- हित्यं श्रुतं “सह पशूनालभेत" इति । तच्च साहित्य सवनीये देशे, तस्य प्रधानप्रत्यासत्तेः, स्थानातिक्रम- साम्याच्च । सवनीयदेशे धनुष्ठाले क्रियमाणे अग्नी- पोमीयानुबन्ध्ययोः स्वस्वस्थानातिक्रममात्रं भवति, अ- ग्नीषोमीयदेशे हनुष्ठाने क्रियमाणे सवनीयस्य स्वस्था- नातिक्रममात्रम् अनुबन्ध्यस्य तु स्वस्थानातिक्रमः सवनीयस्थानातिक्रमश्च स्यात् । एवमनबन्ध्यदेशे ऽग्नी. षोमीयस्य द्रष्टव्यः । तथा च सवनीये देशे सर्वेषाम- नुष्ठान कर्तव्ये सवनीयस्य प्रथममनुष्ठानम् । आ: विनग्रहणानन्तरं हि सरनीयदेशः । प्रकृतो "आ. श्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं स- वनीयं पशुमुपाकरोति" इत्याश्विनग्रहणान्तरं तस्य वि- हितत्वात् । तथा च साद्यस्वेऽप्याश्विनग्रहण कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात्म- श्रममनुष्ठानमितरयोश्च पश्चादित्युक्तम् । प्रधानक्रमेण योऽङ्गानां क्रम आश्रीयते स मु. ख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव आश्रीयते । प्रयोगविधिनेति शेषः । कथमुक्तविधपाठस्य पदार्थ- क्रमनियामकत्वमक्त आह येनहीति । अधीतान त्यस्य प्रयोगकाल इत्यादिः। तस्य प्रधानेति । तथाच उत्साहित्येनेतरयोरपि तत्म-