पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९ क्रमप्रमाणनिरूपणम् । णवाक्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाऽऽ- हुरर्थवादचरण वार्त्तिककाराः-'प्रयाजादिवाक्यान्यर्थ स- मर्थ्य चरितार्थानि स्वरूपसंस्पर्श सत्यपि प्रयोजकतां न प्रतिपद्यन्ते' इति । तस्मात्समन्त्रककर्मणां पाठक्रमो मन्त्रपाठात् । अमन्त्रकपाठक्रमस्तु ब्राह्मणपाठक्रमादे- वेति दिक् । प्रकृतौ नानादेशस्थानां पदार्थानां विकृतौ व- चनादेकस्मिन्देशे ऽनष्ठाने कर्तव्ये यस्य देशे ऽनष्ठीय- न्ते तस्य प्रथममनुष्ठालमितरयोश्च पश्चात-अयं यः क्रमः स स्थानमः । स्थानं नामोपस्थितिः । यस्य हि देशे योऽनुष्ठीयते तत्पूर्वतने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्वे ऽग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदौ सवनीयप- शोरनुष्ठानम्, तस्मिन्देशे आश्विनग्रहणानन्तरं स- वनीयस्यैव प्रथममुपस्थितेः, इतस्योस्तु पश्चात् । त- था हि ज्योतिष्टोमे त्रयः पशुयागाः-अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्चेति । ते च भिन्नदेशाः । अ- ग्नीषोमीय औपवसथ्येऽह्नि, सवनीयः सुत्याकाले, अनुबन्ध्यस्त्तन्ते । साद्यस्को नाम. सोमयागविशेषः । स चाव्यक्तत्वाज्ज्योतिष्टोमविकास अतस्ते वयोऽपि