पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ भाट्टालङ्कारसहितरीमांसान्यायप्रकाशे- धिकरणविरोधः । तत्राहि ब्राह्मणपाठान्मन्त्रपाठस्य बली- यस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्येत्युक्तम् । अथ-'आग्नेयादिषु याज्यामन्त्रा एव देवताप्रकाशनद्वारा कर्मप्रकाशकाः, त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्ये- ति' चेत, तुल्यं प्रयाजेषु । तत्रापि हि याज्यामन्त्रा देवताप्रकाशकाः, प्रयाजेषु देवताया भान्त्रवर्णिकत्वात् । स्था च प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात्तत्क्रमो मन्त्रपाठादेव स्यान्न तु ब्राह्म- णपाठात् । न च मन्त्रपाठस्यान्याशत्वात् प्रयाज- क्रमो ब्राह्मणपाठादेवेति वाच्यम् । अन्यादृशत्वे त- स्यैव क्रमस्यानुष्ठानं स्यात्, मन्त्रक्रमस्य बलीयस्त्वात् । अभ्यासाधिकरणे च वार्तिककृता क्रमविनियुक्तवंलिङ्ग- कमन्त्रवर्णेत्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमवि. नियोग उक्तो नवमे ॥ तन्त्ररत्ने “समिधोऽग्न आ- ज्यस्य व्यन्तु इत्यादिमिः क्रमप्रकरणप्राप्तर्देवता गुणत्वेन समार्यन्त इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदन- पपत्तिः स्यात, तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमाक्रम इत्यु च्यते” ॥ सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रान सन्त्येव, यथा तूष्णी विहितेषु कर्मसु, तेषां क्रमो ब्रा- झणपाठक्रमात् । तत्र तेषामेव प्रयोगसमक्तार्थस्मारक- त्वात् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्म-