पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रमप्रमाणनिरूपणम् । प्रयाजानां “समिधो यजति' 'तनूनपातं यजति' इत्येवं विधायकवाक्यक्रमाद् यः क्रमः स ब्राह्मणपाठक्रमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थं विधाय कृतार्था- नि, तथापि प्रयाजानां स्मारकान्तरस्याभावात्तान्ये- व स्मारकत्वेन स्वीक्रियन्ते । तथा च येन हि क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं जनयन्तीति युक्तं तेनैव क्रमेण तेषामनुष्ठानमिति । तत्सिद्धं प्रयाजानां ब्राह्मणपाठक्रमाक्रम इति । ननु प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं वि- धायकत्वेन कृतार्थानां ब्राह्मणवाक्यानां किमिति स्वी- क्रियते प्रयोगसमवेतार्थस्मारकाणां याज्यामन्त्राणामा- मेयादिष्विवात्रापि सत्वात् । न च तेषां देवतास्मा- रकत्वात्कर्मस्मारकत्वेन ब्राह्मणवाक्यं स्वीक्रियते इति वाच्यम् । आमेयादिष्वपि कर्मस्मारकत्वेन तस्वी- करापत्तेः । न चेष्टापत्तिः । तथा सति ब्राह्मणपा- ठान्मन्त्रपाठस्य बलीयस्त्वं न स्यात् । तबलीयस्त्वे हि मन्त्राणां प्रयोगसमवेतार्थस्मारकत्वमितरस्य तद- स्मारकत्वं हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मणवाक्यस्य स्वीक्रियते तदा प्रधानस्मारकत्वेन ब्राह्मणवाक्यस्यान्तः रङ्गत्वादङ्गभूतदेवतास्मारकत्वेन च मन्त्राणां बहिरङ्ग- त्वान्मन्त्रपाठाबाह्मणपाठस्यैव बलीयस्त्वं स्यात् । तथा च मन्त्रतस्तु विरोधे स्याद् इति(५।१।१६)पाश्चमिका-