पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- दृष्टं प्रयोजनमास्ति । पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदार्थानां क्रम ‘आश्रीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधीता- न्यर्थप्रत्ययं जनयन्ति । यथार्थप्रत्ययं च पदार्था- नामनुष्ठानात् । स च पाठो द्विविधः- मन्त्रपाठो ब्राह्मणपाठ- श्वेति । तत्रानेयाग्नीषोमीययोस्तत्तद्याज्यानुवाक्याक्र- माद यः क्रम आश्रीयते स मन्त्रपाठात । स चायं मन्त्रपाठो ब्राह्मणपाठाद् बलवान् । अ. नुष्ठाने ब्राह्मणवाक्यापेक्षया मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद् बहिरेव 'इदमेवं कर्त्तव्यम्'इ- त्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्या- प्रियते । मन्त्राः पुनरनन्यप्रयोजनाः प्रयोगसमवेता- र्थस्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्मरणक- माधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वादन्तरङ्गो मन्त्रपाठ इतरस्मादतिबलवान् । अत एवाग्मेयानी- पोमीययोर्ब्राह्मणपाठादादावग्नीषोमीयानुष्ठानं पश्चादाग्ने यानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावानेया- नुष्ठानं पश्चादग्नीषोमीयस्येत्येवं क्रम इत्युक्तम् ॥ म्ये क्रमव्यवहारो गौणः, उक्तक्रमलक्षणानाक्रान्तत्वात्, प्रथमभ- क्षमात्रानुष्ठानात् क्रमानुष्ठानं वृत्तमिति व्यवहारसम्भवाच ।