पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रमप्रमाणनिरूपणम् २२५ तत्र क्रमपरं वचनं श्रुतिः । तच द्विविधं के वलक्रमपरं, तद्विशिष्टपदार्थपरं चेति । तत्र “वेदं कृत्वा वेदिं करोति इति केवलक्रमपरम् , वेदि- करणादेवचनान्तरेण विहितत्वात् । “वषट्कर्तुः प्र- थममक्ष' इति तु क्रमविशिष्टपदार्थपरम् । एकप्रस- रताभङ्ग भयेन भक्षानुवादेन क्रममात्रस्य विधातुम- शक्यत्वात् । सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । ते- षां वचनकल्पनद्वारा क्रमप्रमाणत्वात् । अत ए- वाश्चिनस्य पाठकमात्तृतीयस्थाने ग्रहणप्रसक्तौ “आ- श्विनो दशमो गृह्यते" इति वचनादशमस्थाने ग्रहण- मित्युक्तम् । यत्र तु प्रयोजनक्शेन (क्रम) निर्णयः स आर्थः क्रमः । यथा ऽमिहोत्रहोमयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्व- मनुष्ठीयते । स चायं पाठक्रमाद् बलवान् । यथापाठं धनुष्ठाने क्लप्तप्रयोजनबाधो ऽदृष्टार्थत्वं च स्या- त् । न हि होमानन्तरं क्रियमाणस्य किञ्चिद् 3 पौर्यापर्येति । अत्राव्यवहितेत्यादिः । क्रमे मुख्यमानतयोक्तश्योग- विधरनुग्राइकाणि मानान्याह-तत्रेति। वषट्कर्तुरित्ति। माथ-