पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्रयोगविधिख स्वविधेयप्रयोगप्राशुभावासिध्यर्थं निय- तं क्रममपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा । तत्र च षट् प्रमाणानि-श्रुत्यर्थपाठस्थानमुख्य- प्रवृत्त्याख्यानि । पदार्थलोपः । विशेषणतयेति । क्रमसाहित्यादेरकारकत्वाशयेने- दम् । असुनैव ग्रन्थेन भिन्नप्रयोगविधिपरिगृहीतानां न क्रमनियम इति द्योत्यते, विध्यतरप्रयोज्यपदार्थ विशेषणवेन विध्यन्तरण क्रमविध्ययोगात् । अत एव काम्यक्रतुषु न पाठक्रमेण क्रमनियमः "तदादिवाऽभिसम्बन्धाद् इति (म० मी० अ० ५ पा० १ अ० १२ सू० २४) न्यायेनाग्निमारुतामनुयाजोत्कर्षेण सूक्त वाकोकजपि पौरोडाशिकापष्टलेपफलकरणहोमयो!त्कर्षः । नि बद्धक्रमस्वमेव हि पदार्थानां तदाद्युत्कर्षे तदंतापकर्षे च तन्त्रम् । यद्यपि चोक्तहोमयोः प्रकृतावनुयाजादिभिः सह निबद्धक्रमलान तथा पूर्वमिति नयनोचरत्वम् , तथाऽपि सबनीयपशौ प्रातस्तैः सह पुरोडाशे प्राप्तयोस्तयोर्न निकद्धक्रपत्वमिति नानुयाजोत्कर्षे तदु- स्कर्षसम्भवः । नचैवं सूक्तवाकषाद्यन्तर्गतपौरोडाशिकदेवतापदाना मध्यनुत्कर्षापत्तिः, यत्पदार्थान्विततया स्वार्थ एभिर्बोधनीयः, तेषां "होता यक्षद" इत्येवमादीनां पशुप्रयुक्ततयोत्कर्षे सत्येषामप्युत्कर्षावश्यं भावात् । विततीति । अयुगपद्भाव्य नेकपदार्थानुष्ठानात्मक इत्य- थः । अस्मिश्च मते अध्वर्युगृहपति दीक्षयित्वा" इति वाक्ये आद्यन्त- दीक्षागोचरस्यैकस्यैव : विततिविशेषस्य विधेयत्वादेकवाक्यत्वं ल: भ्यते .पूर्वपदार्थनिरूपितानन्तर्यात्मनः क्रमस्योत्तरपदार्थोपस्थिति सम्पादनेन दृष्टार्थतयाऽत्वसम्भवे विततिविशेषात्मत्वाभ्युपगमेना- दृष्टार्थतया स्वाश्रययावत्पदार्थमत्वाभ्युपगमो ऽयुक्त इल्याशयेनाइ .