पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोगविधिनिरूपणम् । २२३ तस्मादङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिरेकवाक्य- तावगततत्साहित्यं विदधदुक्तविधया एककालानुष्ठा- नानुपपत्तेरविलम्ब विधत्ते इति सिद्धं प्रयोगप्राशु- भावबोधको विधिः प्रयोगविधिरिति । स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत्कर्तव्य- मेतदनन्तरमेतद वेति प्रयोगविक्षपापत्तेः । अतः यथा वा सत्यपि तन्त्रमध्यविधौ वस्तुतस्तन्त्रमध्यपातानिशीष्टिवि- धिर्निशीष्टयर्थतया प्रयाजादीन् । यत्वङ्गं यदा तन्त्रिणा प्रयुज्यते प्रयुक्तिसामर्थ्य सच्चाद् ? अयमेव भेदश्चातुर्थिकात् पयोजकाद्वादशो- तषसङ्गिनि । प्राशुभावबोधकत्वोक्त्यवतदपि सुचितम् । यदङ्ग सकृद- नुष्ठापितमगृह्यमाणविशेषत्वात् बहूनां प्रधानानामुपकाराप प्रभ. वनि न तदनुष्ठाप्यते, यथा-पूर्णमासप्रयोगे प्राजादि । प्राशुभावभ- अापत्तः । यत्र तु देशकालादिकृतो विशेपो गृह्यते इदमस्मै प्रधा- नाय नास्मा इति, प्रयुज्यत एव तद सकृत् । यथा त्रिकभेदे प्रयाना- दि, काल कृतविशेषग्रहणात् । वरूणप्रघासेषु च तद्विहारभेदेन देशक- तविशेषग्रहणात् । वरुणप्रघासेष्वेव पत्नीसंयाजाः कर्तृकृतविशेषग्र- हणात् । अध्वर्युणा हि क्रियमाणास्ते ऽष्टानामेवोत्तरवैहारिकाणा- मुपकुर्युः, न मारुत्याः। असत्यपि कर्तृभेदे दक्षिणाभेदप्रयुक्तकर्तृ स्वभेदात्कचिदहावृत्तिः, यथा-राजसूयान्तर्गतावेष्टिप्रयोगे । न चै पाशुभावानुरोधेनानियतक्रमाश्रयणमेवोचितम्, नेत्याह-सचेति । नियत इति छेदः । यद्यपि पुरुषभेदेन नियमानियमोवुभावपि प्रा- शुभावोपपादकत्वेन सम्भाव्येते, तथाऽपि नियमाश्रयणे पदार्थसा- कल्योपपत्तेस्तदाश्रयणमेवोचितमित्याशेयनाह-अन्यथेति-विक्षेपः ,