पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रयोगविधिनिरूपणम् । २२१ नान्यार्थम् । दध्यानयनवाक्ये सप्तम्यन्तपदाभिहितस्य पयसो नयति द्वितीयकर्मतया व्याप्तस्य नपनं प्रति प्राधान्यावगतेः पयःपरा- मर्शिसर्वनामपदार्थाभेदान्वयित्वाचामिक्षायाः वाजिनप्राधान्यस्य मानशून्यत्वात् । तुल्ये ऽप्ये कहायनीनयनसाध्यत्वे क्रयपदकर्मणोः क्रयार्थमेव तदनुष्ठाप्यते तत्संस्कार्याया एकहायन्याः क्रये विनि युक्तत्वात् । तुल्ये ऽपि पुरोडाशतुषोपचापयोः कपालशेषित्वे पुरोडाशार्थमेव कपालमनुष्ठाप्यते 'पुरोडाशकपालेन तुषानुवपति" इति विधिवेलायामेव तुपोषवापस्य परमयुक्तकपालसाध्यत्वप्रतीतेः । सत्यप्याग्नेयस्विष्टकृतोः पुरोडाशसाध्यत्वे स्विष्टकदर्थत या न पु- रोडाशो ऽनुष्ठाप्यते उत्तरार्धात्मकैकदेशसाध्यत्वेन श्रुतस्य तस्यै- कदेश्याकासयामाग्नेयादिप्रयुक्त कदेशिग्राहकत्वात् , प्रतिपत्तित्वाच्च । एतेन पशौ शकल्लोहितयोनिरसनम् , पूर्णमासे शाखायाः प्रहरणं प्रणीतानां निनयनं प्रयांजशेषस्य क्षारणम् इडादेर्भक्षणम् , सोमे कु- णविषाणायाः प्रासनम् , अवभृथे सोमलिप्तानां नयनमप्रयोजकमिति ज्ञेयम् । प्रत्तिपतित्वसिद्ध्युपयोगिन्यायस्यैव दर्शनाय परमधिकरण- भेदः।नचैव "मैत्रावरुणाय दण्डं ददाति" इति विहितदानं द्वितीयया दण्डप्रतिपच्यर्थत्वाद्दण्डाप्रयोजकं स्यादिति शाम् । चतुश्रुत्या मैत्रावरुणार्थदानं प्रति दण्डपाधान्यायोगात् । यत्तु पतिपत्तेः प्रतिपा- द्योत्पत्तिमिव तद्वारणप्रयोजकत्वात् प्रयोजशेषधारणाभावे. क्षारण- विध्यनुपपत्तिरिति । तन्न । प्रतिपायेन प्रयाजाज्येनेवाग्न्यधिकरण- कपक्षेपहपिरधिकरणकक्षारणात्मकपतिपत्तिद्वयमनुष्ठापयतांशभेदेन तदनुभवितुं स्वधारणानुष्ठापनात् । नचैकंसातःसवकानुष्ठितप्रया- जशेषेण मध्यन्दिनसबने भाचिनीषु माजापत्यवपासु स्वपतिपत्य धारणमनुष्ठाप्यतेति शङ्ख्यम् । सनिहिते कचिदनियमेन पाप्तस्य क्षारणस्य संनिहितहविःषु नियमनं कुता शास्त्रेण सग्निहिततद- धिकरणकक्षारणस्याविषयीकरणात् । अशास्त्रीयपतिपयै धारणा-