पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। २२० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- था बृहस्पतिसवस्य वाजपेयेनेष्ट्वा बृहस्पतिसवेन य- जेत"इति वाजपेयोत्तरकालमङ्गत्वेन विहितस्य वा- जपेयापूर्वस्थितावुपयोगः । तस्य प्रागेवोत्पन्नत्वादि- त्युक्तं चतुर्थे । तसिद्धं सर्वथाऽङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः । तदेवं निरूपितः सङ्कपतो विनियोगविधिः । प्रयोगपाशुभावबोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिरेख च मित्रैः-उत्पन्नमपि कार्यं तदभावः विपद्यत इति कल्प्यत इति । यदा तस्मिन् स्थितिर्यस्य परमापूर्वानुकूलातिशयस्य, फलानुकूलाति- शयस्य तस्मिन् । स्त्रीकर्तव्यं च समवायेऽप्यदृष्टान्तरम् । अन्यथा पा- वणहोमे देवतोद्देश(१)नियमादृष्टस्यानाश्रयत्वापत्तेः । प्राशुभावपर- प्रयोजनं सूचयन् लक्ष्यमाई सचेति । अतः प्रयोगपरिच्छेदकस्यापि “पौर्णमास्यां पौर्णमास्या यजेत"इत्यादेरलक्ष्यत्वात्तयावृत्यर्थं प्राथु- भावपयोगे भेदसिध्यर्थमदः शास्त्रम् । ननु सर्वस्यैव विधेः प्रवर्त्त- नात्मनः प्रयुक्तिफलत्वसंभवात्प्रयोगविधित्वमिति तदत्र लक्षणे न कस्य चिदिधात्तिचितेत्यत आह एवेति । फलविशेषकर्मक- भावनान्वयित्वेन प्रधानमिवाङ्गानि बोधयता प्रधान विधिनैव सात प्रधानानुष्ठानसिद्धेः प्रधानोत्पत्तिविधयो विधयो चा न स्ववि- षयान् प्रयुञ्जत इत्याशयः । प्रधानविधिरपि यदर्थं यद् अनुष्ठापयति तत् तस्य प्रयोजकंमन्यदप्रयोजकमित्युच्यते । तद्यथा तुल्ये ऽप्यामिक क्षावाजिनयोर्दध्यानयनजन्यत्के आमिक्षार्थमेव दध्यानयनमनुष्ठाप्यते, (१) देशानियमति पाठ।'