पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गानामपूर्वार्थत्वम् । तत्रोत्पत्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवो- त्पद्यमानत्वात सन्निपत्योपकारकाणां पूर्वाङ्गानां तदु. त्पत्ताबुपयोगः, उत्तराङ्गानां तेषां च तत्स्थितावुप- योगः । परमापूर्वस्य तु साङ्गप्रयोगानुष्ठानानन्तर- मेवोत्पद्यमानत्वात सर्वेषामारादपकारकाणां तदुत्प- त्तौ, प्रयोगबहिर्भूतस्य तु तत्स्थिताबुपयोगः । य- द्वारेणैवोचितेति । कश्चित्तु “दर्शपूर्णमासाभ्याम्" इति षड्यागनिष्ठसाधनता- प्रतीतिः षड्यागसाधारणशक्तिं विनाऽनुपपद्यमाना तादृशशक्ति. कल्पनामाक्षिपति, तादृशशक्तिरेव परमापूर्वमित्याह । केचित्तु परमापूर्वाऽभावे समस्तारादुपकारिणां फलोत्पत्तावुप- योगो वाच्यः । यथा सिद्धान्तिमते परमापूर्वोत्पत्तौ । उत्पत्यपूर्वार्थ वे चोत्तरेषां तत्स्थित्यर्थत्वे क्षणविशेषावच्छिन्नस्थित्यर्थत्वे माना- भावायावत्फलोत्पत्ति तत्स्थित्यर्थत्वं वाच्यम्, तमश्च सकृत्स्वर्गाय दर्श कृतवतः प्रकृतिद्वितीयादिप्रयोगेषु विकृतिषु चैहिकफलासु पुनरनुयाजाद्यननुष्ठानापत्तिः पूर्वकृताङ्गोपकाराणामनपवृत्तत्वेन प्रसङ्गसिद्धेः । ततश्च "पृषदाज्येनानुयाजान् प्रजति", "एकादशा- नुयाजान् यजति" इति वचनानुपपत्तिरिति परमापूर्वसिद्धिमाहुः । असति च परमापूर्वे समस्ताङ्गापूर्वसहितैः षड्भिरपूर्वैः फलो त्पत्त्यभ्युपगमे प्रयोगे समाप्तेऽपि यस्य कस्यचिदङ्गस्य प्रधानस्य वा कीर्तन तन्मात्रजन्यापूर्वनाशात् फलानुदयापत्तिः । न युक्तं संभः वति फलोदये पुनःप्रयोगादृते । एतेन नित्येष्वपि परमापूर्योपपत्तिजया पश्वादिदृष्टान्तेन पापक्षयस्य प्रयोगानन्तरभावित्वनियमासंभवात् । तस्थिताविति षष्ठीसमासौ। उक्तं हि प्रतिपत्तिसूत्रे वैधाधिकरणे