पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या- भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- मामेयापूर्वप्रयुक्तत्वात् , आज्यस्य च तदर्थत्वाभावा- दित्युक्तं दितीये। आरादुपकारकाणां तु स्वरूपे ऽनुपयोगात परमा- पूर्वार्थत्वम् । बहुव्रीहिः । परमापूर्वप्रयुक्तो ऽप्यवघातो दृष्टकार्यमहिम्ना शक्यत आज्याद्यावर्तयितुं न प्रोक्षणपर्यनिकरणे । अनुपयोगादिति । स्वरूपोपयोगिद्रव्याधुद्देशेनाविधानादित्यर्थः । अपूर्वसाधनलक्षणा. मनपेक्ष्य प्रधानभावनयेतिकर्तव्यतात्वेन स्वीकृतानां तद्भाव्यम- धानापूर्वार्थत्वमेव युक्तमिखाशयः । कुतः पुनः परमापूर्वसिद्धिः, चतोत्पत्यपूर्वैस्तदुत्पादितममुदायापूर्वाभ्यां शक्यते फलोत्पत्तिर्व क्तुम् । एकफलोत्पत्तिनिर्वाहाय प्रथमतः कल्पितमेकमपूर्व न पश्चा- स्कल्पितापूर्वान्तरशनापकर्तुं शक्यमिति चत् । न ।आदित एव प. ण्णां कर्मणां करणत्वनिर्वाहाय तावदपूर्वकल्पनौचित्यात् । विरुद्ध श्रुत्यदर्शिना कल्पिताया लिङ्गकल्प्यश्रुतेरिव कल्पितस्यापि परमा- पूर्वस्य प्रकारान्तरेण कल्पनामूलाकासोच्छेदालोचने बाधसम्भवा- छ । प्रथमतः षडपूर्वकल्पने तेषां साङ्गप्रधानजन्यत्व निर्वाहाय षड- पूर्वान्तरकल्पनापत्तिरिति चेत् । भवतु, न तावता प्रेक्षावद्भिः क्रम भाविषड्यगव्यापारत्वेनैकमपूर्व कल्पयितुमुचितम् । नचाङ्गाना. मदमर्यमुत्पादकत्वेनैवेति नियमः सम्भवी, पराभिमतो वेति पूर्वानोत्पादितैरुत्तराङ्गस्थापितैः षभिरेवापूर्वैः फलोत्पत्तिनिर्वाहाम्नै- व वस्तुतो ऽधिक कल्पना ऽपि । अतः कथमारादुपकारकेषु परमा- पूर्वप्रयुक्तत्व व्यवहार इति चेत् । भवदेवः-कुविन्दादिकर्तुरुद्देश्यपटादिसिद्धिरनेकत- नत्वादिकरणसम्पाद्या कार्याव्यवहितपूर्ववृत्तिसंयोगादिव्यापारद्वारे- जैव-जायमाना दृष्टा अतो ऽनेकयागैरपि स्वर्गादिसिद्धरेकापूर्व-