पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विधीयमानोऽर्थो धर्मः-यथा यागादिः। स हि 'यजेत स्वर्गकाम' इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथा हि यजेतेत्यत्रास्त्यंशद्रयम्, यजिर्धातुः श्रुत्यवगतविध्यन्वय एव हेय इत्यत आह । तथाहीत्यादि । अंशद्वयं-शकशब्दद्वयम् । धातुरिति वाच्ये यजिधातुरित्युक्ति- यज्यभिधानेन चरितार्थस्य धातोर्न भावनाबाचित्वमपि युक्त- मिति द्योतनाय । नच यागात्मनैव धात्वभिहितव्यापारे कारका- न्वयसम्भवान्नैव तदतिरिक्तभावनाभिधानमाख्यातपदे कापीति शङ्यम् । पचतीत्यस्य पाकं करोतीति विवरणानुपपत्तेः घा- न्तपाकादिपदोक्तव्यापारव्यतिरिक्तव्यापारस्यात्र करोतिनाऽप्र- तीतेः । न च पाकादिपदं फलमात्रपरं वक्तुं युक्तं, फलकाले पाकोवर्त्तते इति प्रयोगापत्तेः परैरनभ्युपगमाच्च । किश्च स्वय- मकारकस्य यागस्य सकलकारकविशेष्यात्मना धातुनाभि- धाने तृतीयाद्वितीयाद्यन्तानां नाम्नामन्वयो न स्यात् स्या- चोद्भिदादीनां विनैव मत्वर्थलक्षणया गुणविधित्वम् । प्र- त्ययोक्तिश्च "भावप्रधानमाख्यात" मितिस्मृतेरनुभवाच्च यजे- वेत्यत्र विशेष्यभूताया भावनायाः “तयोस्तु प्रत्ययार्थः” इति स्मृतेः प्रत्ययवाच्यत्वं युक्तमितिद्योतनाय । यथाहुः- (१)"प्रत्ययार्थ सह ब्रूतः प्रकृतिप्रत्ययौ सदा । (१) भावप्रधानमाख्यातमिति नैरुक्तवचनबलेन णिजन्ता- द्भवतेरच्प्रत्ययेकृते भावशब्दव्युत्पत्तेर्भावनाप्राधान्याविषयत्वाव- सायात्प्राधान्याभावे च कृदन्तवनिरपेक्षस्य कारकान्वयायो- गापत्राख्यातेभ्यश्च भावनाप्राधान्यावगतेः सर्वस्य सम्वेद्य- त्वान्न तावत्प्राधान्ये विप्रतिपत्तुं शक्यं प्रकृत्यर्थत्वे च सति विशे- पणत्वापत्तेः प्राधान्याभावप्रसङ्गात् प्रकृतिप्रत्ययौ प्रत्ययार्थ स- ह ब्रूतस्तयोः प्रत्ययार्थः प्राधान्येनेति प्रत्ययार्थप्राधान्यस्मृतेश्व