पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- णमस्ति, तस्यादृष्टत्वात् । न च एवं प्राधान्या- ददृष्टत्वाच्च फलप्रयुक्तमेव किं न स्यादिति वाच्य- म् । फलभावनायां यागस्यैव करणत्वादङ्गानां च करणानुग्राहकत्वात्तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रस- तौ तेन स्वापूर्वमेवोपस्थाप्यते सन्निकर्षात, दीक्ष- णीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्य- ते विप्रकर्षात् । अतो न तत्प्रयुक्तत्वमङ्गानाम् अत एव"अगन्म सुवः सुवरगन्म" इति मन्त्री विकृता- वूहितव्य इत्युक्तम् नवमे । फलदेवतयोश्चत्यत्र फ- लप्रयुक्तत्वे तु सौर्यादिविकृतिषु वर्गरूपफलाभावा- न्मन्त्रो न प्रवर्तत नतरां चोहितव्यः स्यादिति । तसिद्धमङ्गानामन्यप्रयुक्तत्वानुपपत्तरपूर्वप्रयुक्तत्वम् । तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसं- स्कारद्वारा यागस्वरूपोपयोगादुत्पत्त्यपूर्वार्थत्वम् । अ- त्रइरापदस्य गिरापदकार्यापत्तिः"न गिरागिरेति याद्"इतिनिषेधा- नुवादकल्पिताच्छब्दादिति । यागस्वरूप इति । सन्निपातविध्युद्दे- श्यबोधकं ब्रीह्यादिपदं यागस्वरूपघटितशक्यसम्बन्धेनापूर्वलक्षणायै प्रवृत्तं सन्निकर्षांदुत्पत्त्यपूर्वमेव लक्षयतीत्याशयकमेतत् । तेनोसर- सनिपातिनां तत्रानुपयोगे ऽपि न क्षतिः । स्वरूपग्रहणेन एकै कयागस्वरूपोपयोगिन एवोत्पत्यपूर्वार्थत्वं न समुदायसंस्कारार्थ- स्य पार्वणहोमादेरपि, तस्य तु समुदायापूर्वार्थत्वमेव युक्तमिति घोत्यते । अथ नैवापूर्व सप्रमाणं दूरत एव तद्विषयप्रयुक्तत्वं ध.