पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ अङ्गानामपूर्वप्रयुक्तत्वम् । कृती 'घृत देव अग्ने'इति । कचित्तु सकलपदाभ्यासः, यथा पशुग- |णे, "एकधा ऽस्य त्वचम्" इति मन्त्रस्यैकधैकधेति । सर्वो ऽध्ययं म. त्रोहः षडिधन्यायमपेक्षते । 'मन्त्रा अर्थप्रकाशनार्थी नोच्चारणेना- दृष्टार्था' इत्येकः, 'मुख्यार्थ एव तेषां विनियोगो न गौणे' इति द्वितीयः, 'अपूर्वसाधनत्वप्रयुक्ता न त्वग्न्यादिस्वरूपप्रयुक्ता'इति वृत्तीयः, 'प्रकृती समवेतार्था नतु सवित्रादिपदवदसमवेतार्थाः' इति चतुर्थः, तथा 'स्वार्थपरा न तुये यज्ञपति वर्धान्"इतीडानिगदस्थ- यजतिपदवत्परार्था"इति पञ्चमः, 'पञ्चविधमानान्यमानेन वैकृत- देवतादेः प्राकृतदेवतादिकार्यापत्तिनिर्णय'इति षष्ठः । तानि चा- हुईद्धाः प्रत्यक्षविधिना ऽभावे विधाने न विकारता । स्वशब्दाच्च निषेधानुवादात्तत्कार्यकारिता ॥ इति । तत्र "नेवारश्चबर्हिस्पत्यः :"इत्यत्र नीवाराणां व्रीहिकार्यापत्तिः प्रत्यक्षसहिताद्विधेरवगम्यते । दृश्यते हि नीवारेभ्यो हविनिष्पत्तिः नतु श्रूयते नैवारीमति । तद्धितपदस्य सम्बन्धमात्राभिधायित्वात् । | "सत्रायागृर्य विश्वजिता यजेत" इति । अत्र विश्वजितः सत्रकार्याप- त्तिरभावे विधानात् । अस्य हि विश्वजितो वाक्यशेषात्"सर्वेभ्यो देवे- भ्य आत्मानमागुरते यः सत्रायागुरते"इत्यादेः सत्रे प्रवृत्तस्य केनचि. देतुना तदसम्भवे तत्कार्ये विधानं प्रतीयते । अत एवेहानुमितनिषे- धानुमितशब्दात्तत्कार्यापत्तिरिति व्यवहारः । “नखावपूतानां चरुः" इस्यत्र नखानामुलूखलमुसलकार्यापत्तिः विकारलिङ्गकानुमानान् । | अवघातकार्य हि तुषविमोकाख्यं नखावपवनात्पश्यता भवत्यनुमानं नखा उलखलमुसयोः कार्ये वर्तन्ते इति ।"परिधौ पशुं नियुञ्जीत"इत्यत्र परिधेः युपकार्यापत्तिः प्रत्यक्षात् प्रत्यक्षकार्यवाचिनो नियुञ्जीतेतिश- न्दात् । नच स्वर्गविशिष्टत्रधातव्यां दीक्षणायाकार्ये विहितायामपि | यथा न दीक्षणीयाधर्मलाभः, तथा परिधौ न यूपधर्मप्राप्तिरिति किं कार्यापत्त्येति वाच्यम् । दृष्टार्थत्वेन वैषम्यात्।"ऐरं कृत्वोनेयम्" इत्य- ..