पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नेत्युक्तं तृतीयान्त्ये । असंभवतरसपयत्वे धानादिसाहचर्याच्च न पुरोडाशे तरसप्रकृतिकत्वविधिः, पुरोडाशकायें तद्विधिना पुनः पुरो. डाशे निवृत्ते चराविध पेषणनिवृत्तौ नाधिवापो नतरां मन्त्र इति चेत् । अत्राहुः-तरसमयपुरोडाशोपात्या "सर्वामृद्धिमार्णोद्" इति न्यायसुधाकृछान्दोग्यवचसि सवनीयपदाश्रवणात् पुरोडाशमात्रपकृ. तित्वेन मांसं विधीयते शक्यते चान्नमिश्रणेन तस्य प्रकृतित्वं संपादयितुम् । उक्तं च छन्दोगमूत्रे तरसपुरोडाशं चान्नसंरोधादिति । संभवति च तथा विधौ न पुरोडाशवाधः समुचितः, तदबाधे चौक्तमन्त्रस्य घटत एवोहोक्तिरिति । अन्येतु मांसे पेषणस्यैवासंभवात् कृत्वाचिन्तयैपोक्तिरित्याहुः। लिङ्गमात्रोहः । तथाच "सख्यसि रुद्राास"इति मन्त्र- स्य साण्डे क्रयार्थ विहिते "वसुरसि रुद्रोऽसि" इति । वचन- मात्रोहः-यथा "छागस्य वपाया मेदस" इत्यस्य प्राजापत्येषु छागांनामिति । नचैवं "पनी सन्ना" इत्यस्य द्विपत्नीकविकृ. तिद्विपत्रीकपयोगे अहः स्यादिति शङ्काम् । प्रकृति द्विपत्रीक- प्रयोगे ऽसमवेतार्थकत्वात् । नच "त्रीहीणां मेध"इत्यस्य यवप्रयोग इव द्विपत्रीकप्रयोगे तस्य मन्त्रस्यापत्तेर्नासमवेता- यत्वापत्तिः । गुणभूतवचनानुरोधेन प्रधानप्रकृतेः प्रवृत्त्यप तिबन्धात् । नचैवम् “अदितिः पाशान्" इत्यस्य द्वि- पशुकेऽनूहापत्तिः। बहुवचनस्य द्वयोरसाधुत्वात् । प्रकृति- लिङ्गयोरूहः, यथा- "अग्नये जुष्टम्" इत्यस्य 'अदित्यै जुष्टम्'इत्या- दि। प्रकृतिवचनयोरूहः, यथा तस्यैव "विश्वेभ्यो देवेभ्यः" इति । लिङ्गवचनयोरुहः, यथा “मास्मा अनिम्" इत्यस्य स्त्रीपशुगणे 'भाभ्य' इति । कचित् त्रयाणामूहः, यथा 'आपो देवीरम"इति प्रोक्षण्यभिमन्त्रणमन्त्रस्य घृते प्रोक्षणं भवति इति विधियुक्तवि- ..