पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अङ्गानामपूर्वप्रयुक्तत्वम् । फलासंयुक्तबुद्धीत्यर्थः । सन्निपत्याभिप्रायमेतत् । आरादुपकारिणतु प्रथम प्रधानभावनान्वितानां यद्यपि तद्भाव्यान्वयपूर्वक एव कर- गान्वयः, तथाऽपि न फलार्थत्वम् , क्षणिककर्मणः कालान्तरभावि. फलार्थत्वनिर्वाहायापूर्वे कल्पिते ऽपूर्व पुंव्यापार साध्यं तदानुषङ्गिक तु फलजन्मेत्यधिगतवतश्चेतसि तादर्येनैव 'कथम्'इतीतिकर्तव्यता. काझेात्थानात् अङ्गेथ्वपूर्वप्रयुक्तत्वनिरूपणस्य फलमाह-अतएवेति । फलप्रयुक्तत्वस्य व्युदासायैवकारः, नोहहेतोन्यायान्तरस्य । अपेक्षते हि मन्त्रोहो न्यायान्तराणि | तथाहि-अतिदेशमाप्तस्य कार्यनिमित्तो- ऽन्यथाभाव ऊहः । स चतुर्विधः-संस्कारोहः, सामोहः, प्रयोगोहो, मन्त्रोहश्चेति । तत्राद्यो व्रीह्यादौ दृष्टप्रोक्षणादेवैकृतनीवारादावनुष्ठाने, द्वितीयो, अभिवत्यामुत्पन्नरथन्तरादेः कवत्यादावतिदिष्टस्य तदीय- सन्ध्यक्षराअनुरोधेन प्रदेशान्तरस्थायीभावादिवैशिष्टये, तृतीयो द्वा- दशादिकपाठिकद्वितीयोहे, विकृतौ द्विरात्रद्वितीये ऽन्हि पन्नीसंयाजा. तत्वत्यागेन कृत्स्नानुष्ठानम् । द्वादशाहे हि अनुत्तमेष्वहःसु भाव्यतः साहित्याय कचित्पदार्थे ऽवस्थाने प्राप्ते "पत्रीसंयाजान्तान्यहानि संतिष्ठत" इति पत्नीसंयाजेषु तन्नियम्यते । अनुत्तमप्रकृतिकमापे च द्विरात्रद्वितीयं स्वयमुत्तममिति न पत्रीसंयाजान्तत्वं लभते। चतुर्थस्त्व- | विध:-प्रकृतिमात्रोहः, यथा “मर्याय जुष्टम्" इति । यथा वा विपशु- कगणे"द्विपञ्चाशदनयोर्वक्रयः"इति,यथा वा षट्त्रिंशत्संवत्सरे तर- समयपुरोडाशे पेषणाधिकापमन्त्रस्य"धान्यमसि" इत्यस्य मांसम- सीति । यद्यपि प्रकृतौ प्रकृतिवाचिना धान्यशब्देन लक्षणया विकार- प्रकाशनमकारि, तथाऽपि विकृतौ "मृगोसि"इति लाक्षणिकपयो- गो न कार्यः । प्रकृती लक्षणाया आर्थिकत्वात् । इह च स्वाय. त्ते शब्दप्रयोगे तस्या अन्याध्यत्वात् । स्यादेतत् । “तरसमयाः सवनीयाः पुरोडाशा"इत्यत्र सवनी- योद्देशेन तरसत्वं विधेयं पुरोडाशपदं तु धानादिषु लिङ्गसमवाये-