पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- त्योपकारकाणामुत्पत्त्यपूर्वप्रयुक्तत्वस्य च वक्ष्यमाणत्वा- तु । अत उभयविधमप्यङ्गजातं क्रत्वर्थमेवेति ना. गगुणविरोधन्यायावतारः । दीक्षणीयादेः पर्वानुग्रह- स्तु दीक्षणीयाद्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात्प्रधानाङ्गेन प्रधानपर्वानुग्रहेण स बाध्यत इति । तत्सिद्धं सन्निपत्योपकारकस्यारादुपकारकाद् बली- यस्त्वम् । अत एव स्थाणौ “स्थाण्याहुतिं जुहोति"इति विहिता स्थावाहुतियूपत्रश्चनस्थाणुद्वारा यूपसंस्कारा- र्था, देवदत्तधारितायाः स्रजः शुचिदेशनिधानमिव देवदत्तसंस्कारार्थम् । न तु स्थाण्वाइतिरारादुपका- रिकत्युक्तं दशमे इत्ति दिक् । द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आ- रादुपकारकम् । यथा प्रयाजादि । तदेवं निरूपितं द्विविधमप्यङ्गजातम् । तच्च न यागादिस्वरूपप्रयुक्तम्, स्वरूपे आन- र्थक्यात् , तदन्तरेणापि तत्सिद्धेः, किं त्वपूर्वप्रयुक्तमे- व। न हि तदन्तरेणापूर्व भवतीत्यत्र किश्चित्प्रमा- धितुमुचितम्, नाविरोधि । नच द्वारदमर्थ्यमपूर्वेदमयंन विरुध्यत इ- त्याशयः । द्रव्यादीति । स्वनिर्तिककारकमित्यर्थः । केवलं