पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०९ अङ्गभेदनिरूपणम् क्यक्लप्तः । उपकारमात्रं तु कल्प्यम् । आरादुपकार- कस्थले तु दर्शपूर्णमासयोः प्रयाजानुयाजयोः . स- म्बन्धः कल्प्य उपकारोऽपि । किं च आरादुपकारकस्थले हि प्रकरणं विनियोज- कम्, इतरत्र तु “ब्रीहीन् प्रोक्षात इति वाक्यमेव ब्रीहि- पदेनापूर्वसाधनलक्षणां कृत्वा कतौ विनियोजकमिति बलीयस्त्वम् । यदुक्तम्-“अङ्गगुणविरोधे तादाद "इति न्या. येन दुर्बलत्वमिति । तदसत् । न हि ब्रीह्याद्युद्देशेन वि- धीयमानं प्रोक्षणादि तदर्थं भवति, तत्स्वरूपे आनर्थ- क्यात, किं तु तत्संस्कारहारा क्रत्वर्थमेव । सन्निप- जिना ऽनूध समुचिताग्निपनापतिवत् विकलितसमयद्वयं तल्लक्षितपर्वसामान्यं चात्र निधीयते । नचेष्टिष्वतिदेशेनैव तल्ला- भाद्विधिवैयर्थ्यम् । आग्नेयविकृतौ विकल्पस्य, दर्शपूर्णमासविकृत्योः क्रमेण पूर्णमास्यमावास्ययोः, सर्वविकृतिषु सद्यस्कालतायाश्चतद्विधि- मन्तरेणालभात् । क्लुप्त इति । उपकार्योपकारकभावनियाम. को धात्वर्थतावच्छेदकी भुतफलाश्रयत्वादिः सम्बन्धो द्वितीयात्री ह्यादिसमभिव्याहारादुपस्थित इत्यर्थः । कल्प्य इति । तयोहि ता. दृशसम्बन्ध ऐकाधिकरण्यादिः । नच स शब्दादुपस्थित इति भावः। वाक्यमेवति। विनाऽपि द्वितीय पास्थावाहुतिवत् प्रोक्षणस्य सं- स्कारत्तसिद्धेः प्रकृतोदाहरणे तस्या अकिंचित्करत्वमभिमेत्येदम् । तदर्थमित्यनन्तरमेवेति शेषः । क्रत्वर्थमित्य नन्तरमपि भवतीति । एवमग्रे ऽपि । बलवता ऽपि हि प्रधानाङ्गत्वेन विरोध्यङ्गाङ्गत्वं बा-