पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- सम्भवत्यदृष्टस्यान्याय्यत्वात प्रोक्षणादि सन्निपत्यो- पकारकं तु कथं बलीयः, उभयोरदृष्टार्थत्वाविशेषा- त् । किं च आरादुपकारकं साक्षात्प्रधानाङ्गं त- स्यान्योद्देशेनाविधानात, सन्निपत्योपकारकं तु अ- ङ्गाङ्गम् कर्माङ्गब्रीह्याद्युद्देशेन विधानात् । अङ्गाङ्गापे- क्षया च साक्षादङ्गं बलीयः । 'अङ्गगणविरोधे तादाद इति न्यायात् । अत एव‘य इष्टया प- शुना सोमेन यजेत सोऽमावास्यायां पौर्णमास्यां वा य- जेत इति अविशेषविधानेऽपि पर्वानुग्रहः सोमयागस्यैव क्रियते न तु दीक्षणीयादेः । अतः कथं सन्निपत्यो- पकारकस्य बलीयस्त्वम् ? । उच्यते । सत्यप्यदृष्टार्थत्वाविशेष सन्निपत्योपकार- कमारादुपकारकाद् बलीयः । सन्निपत्योपकारके हि कर्म- णि उपकार्योपकारकयो हिपोक्षणयोः सम्बन्धो वा- वघातस्य । सन्निपत्योपकारकस्य सत इति शेषः । प्रोक्षणेति । प्रोक्षणादेः सन्निपत्योपकारकत्वमित्यर्थः । उभयोः, पक्षयोः।नचा. दृष्टायत्वे तुल्ये ऽपि द्वितीयावशेन सन्निपत्योपकारकत्वासद्धिः । तस्या "बल्बजान्शिखण्डान् कुरु" इत्यादिप्रयोगवशेन साधनवाचिः त्वात् । असत्यपि तस्मिन् ईप्सितानीप्सितसाधारणत्वेन स्वप्रकृत्यर्थ- प्राधान्यनियामकत्वात् । सन्निपत्योपकारकत्वे ऽवश्यंभाविपकृतिग- वापूर्वसाधनलक्षणातो ऽसंजातविरोधन्यायेन श्रेयसी विभक्तिगत- साधनलक्षणां स्वीकृत्यारादुपकारकत्वस्य वक्तुमौचित्याच्च य इष्ट्येति । पूर्वदलेन विपरिवर्तमानयागान् उत्तरदलस्थय-