पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्गभेदनिरूपणम् । तच्च दृष्टार्थमदृष्टार्थ दृष्टादृष्टार्थे च । दृष्टार्थम- वघातादि । अदृष्टार्थ प्रोक्षणादि । दृष्टादृष्टार्थ प- शुपुरोडाशयागादि । तद्धि द्रव्यत्यागांशेनादृष्टं देव- तोद्देशेन च देवतास्मरणं दृष्टं करोति । इदमेव चाश्रयिकर्म इत्युच्यते । तच्च सनिपत्योपकारकं दिविधम्-उपयो- क्ष्यमाणार्थमुपयुक्तार्थं चेति । तत्रावघातप्रोक्षणादि उप- योक्ष्यमाणार्थ, ब्रीहीणां यागे उपयोक्ष्यमाणत्वात् । प्रतिपत्तिकर्म इडाभक्षणाद्युपयुक्तपुरोडाशसंस्कारकम् । उपयुक्तस्याकीर्णतानिवर्तकं कर्म प्रतिपत्तिकर्म । उपयुक्तसंस्कारार्थं च उपयोक्ष्यमाणसंस्कारार्थाद् दुर्बल- म् । उपयुक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात । अत एव "प्रायणीयनिष्कासे उदयनीयमननिर्वपति' इत्यत्र निष्कासस्य निर्वापार्थत्वं, न तु तस्य तदर्थत्वं, निष्कासस्योपयुक्तत्वात् इत्युक्तमेकादशे । तच्च सन्निपत्योपकारकम् आरादुपकारकाद् ब- लीयः । नन्ववघातादि भवतु बलीयः, तस्य दृष्टा- र्थत्वात् , आरादुपकारकस्य चादृष्टार्थत्वात् दृष्टे उपयुक्तति । अर्थान्तरपदद्वयं भावप्रधानम् । कर्मेति प्रथमान्तं च षष्ठ्यन्तत्वेन बोध्यम् । तच्चेति । कारकान्तपदद्वयमपि भावप्रधानम् । अवघातादीनि । तद्गतसन्निपत्योपकारकत्वमित्यर्थः । तस्थ-अ-