पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि-सिद्धरूपाणि क्रियारूपाणि चेति । तत्र सिद्धानि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्थान्येव । क्रियारूपाणि च द्विविधानि- गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव सन्नि- पत्योपकारकाण्यारादुपकारकाणीति चोच्यन्ते । तत्र कर्माङ्गद्रव्यायुद्देशेन विधीयमानं कर्म सन्नि- पत्योपकारकम् । यथावघातप्रोक्षणादि । गविधिहातीतिप्रातिस्विकविधीनामेव विनियोजकत्वं युक्तं न तदेकवाक्यतापनप्रधानाविधेरेिति वाच्यम् । तादृशवाक्यादङ्गत्वेनाव: धारितं प्रयोगविधिरनुष्ठापयतीति तदभिप्रायात्, अन्यथा वाक्या दिकल्पनया प्रकरणविनियोजकत्वस्योच्छेदप्रसङ्गात् । तान्य- ङ्गानीति । क्रत्वङ्गानीत्यर्थः । स ङ्ख्यादीनीत्यादिना लिङ्गसाहि- त्यक्रमसंग्रहः । यद्यपि साहित्य क्रमयोन कारकत्वं क्रियायां द्रव्यादिवत् , तथाऽपि कारकीभूतपदार्यावच्छेदकतया ऽस्त्येवाङ्गत्वं तातीयमानबोध्यम् , पाञ्चमिकमानानि तु क्रमोपस्थितावुपयुज्यन्ते न विनियोगे इति बोध्यम् । तानिचेति । क्रत्वङ्गभूतानि जात्यादी नीत्यर्थः । तेन खदिरत्वगोदोहनपञ्चदशवप्रभृतेरदृष्टार्थत्वेऽपि न दोषः । एतान्येवेति । उक्तद्वैविध्यापन्नानि क्रत्वङ्गानीति या वत् । तेन गुणकर्मणोऽप्याधानस्य प्रधानकर्मणो ऽपि दर्शादेवक्ष्य माणद्वैविध्य व्यवहाराभावेन न क्षतिः । कर्माङ्गति । द्रव्यादि. गतं कर्मापूर्वसाधनत्वं यत्रोद्देश्यतावच्छेदकमित्यर्थः । तेन व पनादिवत् ज्योतिष्टोमादेः पुरुषोद्देशेन सत्यपि विधाने निरास- सिद्धिः । प्रतीपत्तीत्युपलक्षणं सूक्तवाकादिकृतदेवताप्रकाशनादेः।