पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समाख्याप्रमाणम् । थयोः सम्बन्धोऽस्तीति यावत् कल्प्यते, तावत् प्रत्यक्ष- प्रतिपन्नेन सम्बन्धेन परस्परमाकाङ्क्षा, तदभावे च सम्बन्धानुपपत्तेः । कल्पितसम्बन्धेन च यावद् इतर- त्राकाङ्क्षादिकल्पना तावद् अन्यत्राकाझ्या वाक्यादिक- त्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य सामाख्यातः प्राबल्यम् । अत एव शुन्धनमन्त्रः सानाय्ययात्राङ्गं पाठसादेश्यान्न तु पौरोडाशिकसमा- ख्यया पुरोडाशपात्राङ्गामिति । समाख्या यौगिकः शब्दः । सा च द्विविधा वैदिकी लौकिकी च । तत्र होतुश्चमसभक्षणाङ्गत्वं 'होठचमस' इति वैदिक्या समाख्यया । अध्वर्योस्तत्तत्पदार्थाङ्गत्वं लौकिक्या 'आध्वर्यवम्' इति समाख्ययति सक्षेपः ॥ तदेवं निरूपतानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत्सहकृतेन विनियोगविधिना समिदादिभि- रुपकृत्य “दशपूर्णमासाभ्यां यजेत” इत्येवंरूपेण या- नर्थक्यप्रतिहतत्वे विपरीतमपि बलाबलं यदर्शन मूले पशुधर्माणा- मनीषोमीयार्थत्वमुक्तम् । द्विविधबलाबलाश्रितोऽपि च प्राप्त- बाधः शक्यः प्रतिप्रमाणं वक्तुम् । सन्ति चान्येऽपि प्राप्तबाधाः यथा नित्यं पाश्चदश्यं साप्तदश्येन वैश्यत्वनिमित्तकेन, नित्य- श्वासः काम्यगादोहनेन, पूर्वनैमित्तिकमुत्तरनैमित्तिकने बादयः । बिस्तरभयादाकरप्रसिद्धत्वाच्च परं नैतन्निरूपणमत्र तन्यत इत्याह इति, संक्षेप इति । एवंरूपेणेति । नचाङ्गं सत् प्रयो.