पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कत्र्ता वाच्यो नैकस्य कस्य चिद् ॥इति। तथा च समाख्या न सम्बन्धवाचिका । होतृचमस इत्यादिका तु वैदिकी समाख्या निषादस्थ- पतिशब्दवन्न षष्ठ्यर्थसम्बन्धवाचिका, नापि वाक्य- वत्तद्बोधिका, तस्याः पदत्वेनाप्रमाणत्वात् । पौरो- डाशिकमित्यादिसमाख्यास्त्वतिदुर्बलाः । लौकिकत्वेन पुरुषप्रत्ययसापेक्षत्वान । काण्डगोचरत्वेन तत्तत्पदा- र्थागोचरत्वाच्च । काण्डवाचकत्वमपि न काण्डत्वे- न, किं तु पौरोडाशिकत्वादिनैव । न ह्येकहा- यनीशब्दो द्रव्यवाचकोऽपि गोत्वेन तद् वदति, किं तर्हि एकहायनीत्वेनैव । स्थानविनियोगे तु पदा- र्थयाविशेषपुरस्कारेणैव सम्बन्धः प्रत्यक्षप्रमाणप्रतिप- नः । अतश्च समाख्यामुपलभ्य नूनमनयोः पदा- पत्तेने सम्बन्धवाचित्वमित्याशयः, तर्हि तदेव विशिष्टवाचित्वं नेत्याह अत इत्यादिना । एवं सर्वसमाख्यासु दौर्बल्य- हेतुमभिधाय लौकिकसमाख्याया अतिदौर्बल्यं दर्शयितुं दिक- समाख्यादौर्बल्यं स्पष्टयति-होत्रित्यादिना । तुशब्दो वक्ष्यमाण- समाख्यावलक्षण्यार्थः । नहीति । परमतमालम्ब्येदम् । वैश्वदेवी- पदवत्तद्धितबहुव्रीह्यादेविशेषवाचित्वे तु पदान्तरसापेक्षार्थबोधकत्वेन दौर्बल्यं समाख्यायां बोध्यम् । अस्ति श्रुत्यादिषु सजातीयध्वपि बलाबलं यथाऽऽज्यावेक्षणादिषु सामान्यसमाख्यामाप्तमध्वर्युकत- कलं विशेषसमाख्याप्राप्तेन यजमानककत्वेन बाध्यते, अस्ति चा.