पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थानस्य समाख्यातः प्राबल्यम् २०३ जनाभावात् । सर्वयोगिकशब्दानां पर्यायतापत्तेश्च । द्वितीये ऽवश्यं सम्बन्धिनौ वाच्यौ । तदन्तरेण स- म्बन्धे विशेषाभावात् , तत्प्रतिपत्तिमन्तरेण तदप्रति- पत्तश्च । अतश्चावश्यं सम्बन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथाच न सम्बन्धवाचकत्वं सम्बन्धिप्रतिप- त्यैव वाक्यार्थप्रतिपत्तिन्यायेन तत्प्रतिपत्तिसम्भवे तत्र शक्तिकल्पने गौरवात । यथाहुः- सर्वत्र यौगिकैः शब्दैद्रव्यमेवाभिधीयते। नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ (तन्त्र- वार्तिके ६८८) तथा- सत्राह सति । गोमान् गोत्वं गव्यमित्यादीनामित्यर्थः । तदन्त- रेण, सम्बध्यभिधानमन्तरेण । विशेषाभावात् , अपतीतेः । गोमानित्यत्रैव हि मतुपा पुरुषाभिधाने भवति स्वामित्वधीः, देशा- भिधाने त्वधिकरणत्वधीः, उभयानभिधाने तु न को ऽपि सम्ब- न्धविशेषः प्रतीयते इत्याशयः । नन्वौपगवाग्नेयगव्यगोत्वादिशब्दानां तावत्पतीत्यनुशासनवशेन प्रकृत्यानरूपितापत्यत्त्वदेवतात्वविकार त्ववृत्तित्वाख्यविशेषवाचिवमसत्यपि सम्बन्धान्तराभिधाने शक्य- त एव वक्तुम् , गोमानित्यत्रापि विशेषतात्पर्यग्राहकत्वेन परा भिमतं यच्चैत्रादिपदं तत्सहकृतेन मतुपा शक्येत एव सम्बन्ध विशेषाभिधानमत आह तदिति । यथैव स्नुषादिशब्दे भार्या- न्वयप्रतिपत्तिमनपेक्ष्य पुत्राद्यप्रतीतेः न तन्मात्रचाचित्वम् , तथा यौगिकशब्देभ्यो ऽपि सम्बन्धिपतिपत्तिमनपेक्ष्य सम्बन्धापति-