पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१ स्थानप्रमाणम् पशुरनष्ठीयते तस्मिन्नेव दिने त धर्माः पठ्यन्ते । अतस्तेषां कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्वपू- वमेव भाव्यत्वन सम्बध्यते । अतो युक्तमनुष्ठानसा- देश्यात्तदर्थत्वं तेषाम् । न च पाठसादेश्यादेव तत् किं न स्थादिति वाच्यम् । अमीषोमीयस्य पशोः क्रयसन्निधौ पाठात् । नच क्रयसन्निधौ तस्य पाठे तदनष्ठानमाप तत्र स्यादिति वाच्यम् । “स एष दिदेवत्यः पशुरोपवसथ्ये ऽहनि आलब्धव्य इति वचनात्तदनुपपत्तेः । नच स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योतिष्टो- मार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमया. गत्येन पशुधर्मग्रहणे ऽयोग्यत्वात । अत “आनर्थ्य क्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायात स्थानात्पशयागार्थत्वमेव धर्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । अनी- . -- अत आह नचेति । तत्पश्वपूर्वार्थत्वं सुत्यापठितेनानुपादेयविधेय. भूतफलसम्बन्धेन "आश्विनं ग्रहं गृहीत्वा" इति वचनेनोत्पन्नमवनीय- यागमनूद्यानेन वचनेन “वपया प्रातः सबने चरन्ति" इत्यायेकवा. क्यतापनेनोपादेयप्रचारविप्रकर्षारूपगुणविधानानात्रोत्पत्तिः सानी यस्येत्याशयः । अग्नीषोमीयं प्रत्येक तर्हि पाठसादेश्यादङ्गत्वं स्या- तबाह अग्नीषोमीपस्येति । यदि सोमयागः प्रकरणेन पशुधर्मान् ग्रहीतुं न शक्नोति, तनिर्धक्यतदङ्गन्यायेन तदीयसकलपशुयागा- अन्त्वं तेषां स्यादित्याशङ्ख्याह अत इति । स्थानाख्यमानानु. ,