पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ माहालङ्कारसहितमीमांसान्यायप्रकाशे- फलानर्थानुवन्धित्वात्तद्वारेणोपचर्यते । यदा स्वपीतिहेतुर्यः साक्षाव्यवहितोऽपि वा । सस्य धर्मत्वमुच्येत तदा इयेनेऽप्यधर्मता" इति ( श्लो, वा. चो. सू. २६६) । अप नित्यनैमित्तिकानां प्रयोजनमुद्दिश्य विधानाभावात्- धर्मत्वानुपपत्तिरिति चेत् । "पूर्व सन्ध्या जपंस्तिष्ठन्नैशमेनोव्यपोहति" । इत्यादिस्मृतिभ्यो “यद्राच्या पापमकार्षम्" (नारायणोपनि.) इत्यादिमन्त्रेभ्यश्च पापक्षयमुद्दिश्य तेषां विध्यवश्यम्भावात् । उपपादितं च पापक्षयफलकत्वसेषां सर्वशत्यधिकरणे मित्रैः(१) यद्यपि न्यायसुधाकृतोनैतन्मतं यथोक्तं यावजीवाधिकरणे सेन- • "सम्ध्योपासनमात्राद्धि सर्वपापक्षये सति । अग्निहोत्रायतुष्ठाने का प्रवर्चेत बुद्धिमान् । एकस्य तु क्षये कस्येत्यवगन्तुं न शक्यते" । | नन्विष्टसाधनत्वाच्छयेनादेर्धर्मत्वं भवेदित्याशयेदमुत्तरमुक्तम्- ध्येनः समीहितस्य शत्रुवधस्य साधनं, सोऽपि प्रत्यवा- यस्येत्येषा तावदस्थितिः धर्मशब्दार्थत्वं तु श्यनादेः कीरशमिति लोकानुसारेण सम्प्रधार्य निर्णतव्यं मात्राभिनिवेश इति सम्प्रधा- रणमेव दर्शयति वार्तिकारः-यदि येनेष्टसिद्धिः स्यात् अनुष्ठानानु. अन्धिनी । तस्य धर्मत्वमुच्येत ततः श्येनादिवर्जनम् । यदा तु चोदनागम्य कार्याकार्यानपेक्षया ॥ २७१ ॥ धर्मः प्रीतिनिमित्तं स्या- त्तदा श्येनेपि धर्मता । यदित्वप्रति हेतुर्यः साक्षाद्यवहितोऽपि वा ॥२७२ ॥ सोधर्मश्चोदनार्थः स्यात्तदाश्येनेऽप्यधर्मता" इति । प्रमादेन तस्य धर्मत्वमुच्येतेति टीकायामापतितमिति पेयम् ।। . . ( १) द्वितीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणे "तस्मा- जीवने निमित्ते पुरुषस्य प्रत्यवायपरिहाराय दर्शपूर्णमासप्रयोगो विधीयते जीवनं च यावद्विनिपातं नियतमिति नियतनिमित्तस्वा- भियमोऽयं विधीयते इति पुरुषार्थ" इति ग्रन्थेन ।