पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणस्य स्थानादितः प्रावल्यम् । जस्यत्वेन रूपेण नैराकाक्ष्यमिति वाच्यम् । आ- काङ्क्षाद्रय प्रमाणाभावात् । किं च प्रातिस्विक- रूपैर्या कथम्भावाकाङ्क्षा साऽपि फलसम्बन्धोत्तरका- लम् । सच राजमयत्वेन न तु प्रातिस्विकरूपेण । राजसूयत्वेन च फलसम्बन्धे उत्पन्नायाः कथंभा- वाकाङ्क्षाया विदेवनादिभिः शान्तरतिदेशकल्प- नमेव न स्यात् । याद हि सामान्यरूपेण प्राति- स्विकरूपण च फलसम्बन्धविधायि वाक्यद्वयं भवे- तदा युज्येतापि आकाङ्क्षादयानुसारेण विदेवनादीना- मातिदाशकानां चाङ्गानां सम्बन्धः । न तु तद- 7 नादित्याशयः । न यकस्या अपि उपनयनभावनाया इतिकर्तव्यता- खेन तत्तद्धमूत्रोक्तधर्माणां तत्तच्छाखाध्ययनाङ्गभूतोपनयनव्यक्तिषु व्यवस्थति न्यायसुधायामभ्यधायि, ततश्चैकाऽपि भावना स्वकरण- तावच्छेदकतत्तद्गृह्यसूत्रोक्तत्वरूपभेदेनानेककथंभावाकामा भवतीत्य- भ्युपेयम् , अन्यथा व्यवस्थया ऽनेकेतिकर्तव्यतास्वीकारानुपपत्तेः, तद्वत्मकते ऽपि तत्तधागलराजम्यत्वाख्यकरणतावच्छेदकरूपभेदे- नाकाका भेदः स्यादत आह किश्चेति । प्रातिस्विकरूपैः प्रये. कसमाप्ता । कालमित्यनन्तरं वाच्येति शेषः । च एवार्थे । सैव राज- सूयत्वावछिन्मा फलवाक्ये प्रतीयते नतु प्रातिस्त्रिक रूपावच्छिन्ना, न वेतायता प्रातिस्विकरूपावच्छिन्नाकासातो राजम्यत्वावच्छि- मा ऽन्याऽस्तीत्यर्थः। दृष्टान्ताद्वैषम्यं घोसयन्व्यतिरेकमुखेनोक्तमर्थ- मुपपादयति यदिहीति । एकाऽपि छुपन यनभावना तत्चद्गृह्य- विधिभिर्विधीयमाना तत्तच्छाखाध्ययनरूपाणि विभिन्नभाव्यानि