पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे च्यम् । न ह्यभिषेचनीयादिसोमयागष्वभिपवः प्रत्य- क्षेण वाक्येन चोदितोऽस्ति, तद्वाक्यस्य ज्योति- टोमे ऽसत्त्वात । अतिदशात्तत्सम्बन्धोऽवगत इति चेन्न । अतिदेशस्य फलसम्बन्धोत्तरकालीनत्वन “रा- जमूयेन वाराज्यकामो यजेतइत्येतद्राक्यार्थावगत्य- त्तरकालीनत्वात् । अनेनहि वाक्यन फलसम्ब- न्धे बोधिते पश्चात्कथम्भावाकाङ्क्षायामतिदेशकल्प- नात् । अतस्ततः प्रागव एतहाक्यार्थो वर्णनीयः । तदा चाभिषवस्थानवगतत्वाद राजमयपदमप्रमिद्धार्थ- मेव । अत एव 'राजमयपदमव्युत्पन्नमश्वकर्ण शब्दवद्' इत्युक्तं साम्प्रदायिकः । एवं चाप्रसिद्धार्थत्वनाख्यातपरतन्त्रत्वाद्राजमयप- देनेष्टिपशसोमयागा उच्यन्ते । ते च तैस्तैः प्रा. कृतैर्धनिराकाङ्क्षा इति न प्रकरणं विदेवनादीनां राजसूये विनियोजकम् , उभयाकाङक्षाया अभावा- त् । न च प्रातिस्विकरूपैनैराकायेऽपि न रा- नहाति । प्रातिस्विकातिदेशस्तत्तत्पधानापूर्वकथंभावोपशमेऽपि फलःपूर्वापरपर्यायगजमूयापूर्वकथं भावानुपशमात्मम्भवति तदात्मना प्रकरणेन विदेवनादिग्रह इति वदन्तं भवदेवं प्रत्याइ नयेति । भावना हीतिकर्तव्यतामपक्षते नापूर्वम् , न च तत्तयागभावना- भ्यो राजसूयभावना न्याऽस्ति, यत आकाङ्क्षाभंदः स्यात् । उत्प. त्तिविध्यवगतानामेव भावनानां प्रधान विधिना फलसम्बन्धबोध-