पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणस्य स्थानादितः प्रावल्यम् दर्शपूर्णमासपदं च कालनिमित्तम् । तद्योगश्चा- नेयादिषूत्पत्तिवाक्यैरवगतः । अतस्तदाचित्वेन दर्श- पूर्णमासपदं प्रसिद्धम् । नच आग्नेयादीनां ब- हुत्वाद् द्विवचनान्तत्वमस्यानुपपन्नमिति वाच्यम् । विद्राक्यद्रयसिद्धसमुदायद्वयाभिप्रायेण तदुपपत्तेः । एवं च दर्शपूर्णमासपदस्यानेयादिवाचित्वे नि- गीते यजेतत्याख्यातमपि तानेव वदति । नहि तदुक्ती स्वार्थत्यागो भवति । राजसूयपदं त्वनि- गीतार्थम् , अतस्तदाख्यातपरतन्त्रमेव । तच्चावि- शेषात्सर्वेषु इष्टिपशुसोमेषु विद्यते । तत्परतन्त्रत्वाद्राज- सूयपदमपि तानेव वदात । न च राजसूयशब्द- स्य 'राज्ञा सूयते यत्र इति व्युत्पत्त्या सोमाभिषवान- मित्तत्वात्तस्य च “सोममभिषुणोति"इति वाक्येन सोम- यागेऽवगतत्वात्तदाचित्वमेव, नेष्टिपशुवाचित्वमिति वा- आकाजाभावः विद्वदिति । निरूपितमेतदधस्तादस्मा- भिः । राजम्यपदस्थापि योगेन सोमयागमात्रविषयत्वान्नाख्या- तपारतन्ध्यण सर्वयागवाचित्वमत आह नचेति । क्रियात्म- न्यभिषवे यागनिरूपिताधेयत्वस्य मुख्यस्थासम्भवात् तत्प्रयोगम- ध्ये ऽनुष्ठीयमानत्वेन तदाधेयत्वं वाच्यम् , यश्च सोमयागमध्ये ऽनु- ठीयते क्रियते एवासाविष्टिपशुसोमयागप्रयोगमध्ये ऽपीति योग- साधारण्यसम्भवेन केषां चित्प्राधान्यत्याग उचित इति सम्भ- वन्तमपि परिहारं स्पष्टत्वादुपेक्ष्य प्रौठ्या परिहारान्तरमाह