पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ल्पयितुमारभ्यते, झटिति तावत्प्रकरणेन वाक्यादि- के कल्पयित्वा विनियोगः क्रियत इति स्थानात्म- करणस्य बलीयस्त्वम् । अत एव विदेवनादयो धर्मा अभिषेचनीय- सन्निधौ पठिता आप नाभिषेचनीयस्याङ्गम् । तेषां तदङ्गत्वं च स्थानाद्भवेत् , न तु प्रकरणाद् , अभि- षेचनीयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमविकार- त्वात प्राकृतरेख धर्मेनिराकाङ्क्षत्वात, किन्तु प्रकरणादा- जसूयाङ्गम् । ननु“राजसूयेन स्वाराज्यकामो यजेत"इत्यत्र रा- जसूयशब्दस्तावन्नामधेयत्वादाख्यातपरतन्त्रो यत्राख्या- तं तत्रैव प्रवर्त्तते । न च “दर्शपूर्णमासाभ्यां स्व- गकामो यजेत” इत्यत्र यथा दर्शपूर्णमासपदं नाम- धेयमाप नाख्यातपरतन्त्रम् । तत्र हि यजतेत्या- ख्यातमविशेषात्सर्वानेव प्राकृतानाग्नेयादीन् प्रयाजा- दीश्चाभिधातुं समर्थम् , दर्शपूर्णमासपदं त्वामेयादीनेव वदति न सर्वान् । अतश्च न तदाख्यातपरतन्त्रम् । तथा राजसूयपदमपि किं न स्यादिति वाच्यम् । प्रसिद्धन हि पदेनाप्रसिद्धं निर्णीयते । यथाः- पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥ इति ।