पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९१ v अवान्तरप्रकरणम् । द्विकृत्यर्थत्वम् । यथाऽऽमनहोमेषु । ते हि प्राकृताङ्गानु- वादेन विधियमानयोरन्तराले विधीयन्ते इत्युक्तं तन्त्र- रत्नादावित्यास्तां तावत् । फलभावनाया अन्तराले यद् अङ्गभावनायाः प्रकरणं तद् अवान्तरप्रकरणम् । तचाभिक्रमणा- दीनां प्रयाजादिषु विनियोजकम् । तच्च सन्द- शेन ज्ञायते, तदभावेऽविशेषात सर्वेषां फलभावनाक- थम्भावेन ग्रहणात । सन्दंशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम्, यथाभिक्रम- णम् । तद्धि “समानयते जुह्वामुपभृत "इत्यादिना प्र- याजानुवादेन किञ्चिदङ्गं विधाय विधीयते । पश्चादपि प्रयाजानुवादन “यो वै प्रयाजानां मिथुनं वेद"इत्या- दिना किञ्चिदङ्गं विधीयते । अतः प्रयाजाङ्गमध्ये पठितममिक्रमणं तदङ्गं भवति, तत्कथम्भावाकाङ्क्षाया अशान्तः । यथाहुः- तथापि यत्रेति । एतेन वैकृतप्रधानविधिमा कृताङ्गधर्मविध्योरन्त- राले विनियोगेऽविहितस्यापि प्रकरणविनियोगो दर्शितः । अनेकार्थेष्ववान्तरतात्पर्यवतामनेकाक्यानामेकत्र कचिन्महातात्प- र्यमपि प्रकरणपदेनोच्यते यद्विषयतया परे ब्रह्मणि प्रकरणित्व- व्यवहार औपनिषदानाम् । एतेदवाधिकार इत्यस्याप्युच्यते, तथा फलेतिकर्तव्यताकासाभ्यामन्ये अप्याकाङ्क्ष स्वाश्रषयोः संबन्धकारिण्यौ प्रकरणपदेनोख्येते यन्महिम्ना ग्रहणदेवतानां